Enter your Email Address to subscribe to our newsletters


देवरिया, 29 मार्चमासः (हि.स.)।
भारतस्य प्रधानमन्त्री नरेन्द्र मोदी रविवासरे ‘मन की बात’ नामकस्य कार्यक्रमस्य १३२तमं प्रकरणम् सम्बोधितवान्। अस्य श्रवणं शशांकमणिः देवरिया-नगरस्य श्रीराम-शक्ति-केन्द्रस्य २७२ क्रमाङ्किते बूथे कार्यकर्तृभिः सह कृतवान्।
शशांकमणिः कार्यकर्तॄन् सम्बोधयन् अवदत् यत् एषः कार्यक्रमः अस्मान् राष्ट्रस्य प्रति स्वकर्तव्येषु सजगान् करोति तथा सर्वान् देशवासिनः एकत्रिताः कृत्वा कठिनतमासु परिस्थितिषु अपि साहसं ददाति। सः उक्तवान् यत् प्रधानमन्त्री मोदिना अमेरिका-इजरायल-ईरानदेशानां मध्ये प्रचलितस्य संघर्षस्य विषये गम्भीरा चिन्ता व्यक्ता अस्ति तथा उक्तम् यत् राष्ट्रं मिलित्वा एताभ्यः परिस्थितितिभ्यः निर्गमिष्यति। वयं सर्वे प्रधानमन्त्रिणः कुशलनेतृत्वे तथा भाजपाशासनस्य उपरि पूर्णविश्वासं धारयामः यत् यथा कोरोना-समये तथैव अस्मिन् वैश्विकसंकटेऽपि जयम् प्राप्स्यामः।
अस्मिन् अवसरे नगराध्यक्षः रमेशवर्मा, शक्ति-केन्द्र-संयोजकः डॉ. ब्रह्मसिंहः, शक्ति-केन्द्र-संयोजकः दिनेशतिवारी, बूथाध्यक्षः दुष्यन्तसिंहः, कौशलेन्द्रपाण्डेयः, रमेशमणिः, सन्तोषमणिः, रामजीतशर्मा, रंजीतशर्मा, देवेशसिंहः, धर्मेन्द्रतिवारी, पुष्पामिश्रा, डॉ. प्रवीणमिश्रा, संजयभाटिया, रमेशगौडः, संजयश्रीवास्तवः, सुधीरशुक्लः, सुधांशुशर्मा, केशवरायः, रोहितरायः च उपस्थिताः आसन्।
--------------
हिन्दुस्थान समाचार