Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 29 मार्चमासः (हि.स.)। गत-व्यापार-सप्ताहे देशस्य शीर्ष-दश-मूल्यवान-निर्माणीषु अन्तर्भूतानां सप्त-निर्माणीनां विपण-पूंजीकरणे समष्ट्या 1.75-लक्ष-कोटि-रूप्यकाधिकं पतनं अभवत्। एतेषु रिलायंस-इण्डस्ट्रीज् सर्वाधिकं प्रभावितम्, ततोऽनन्तरं एचडीएफसी-धनागारः द्वितीय-स्थाने स्थितः।
गत-सप्ताहे रिलायंस-इण्डस्ट्रीज्, एचडीएफसी-धनागारः, स्टेट-बैंक-ऑफ-इण्डिया, आईसीआईसीआई-धनागारः, भारती-एयरटेल, हिन्दुस्तान-यूनिलीवर तथा टाटा-कंसल्टेन्सी-सर्विसेज् इत्येषां विपण-पूंजीकरणे समष्ट्या 1,75,332.97-कोटि-रूप्यकाणां न्यूनता अभवत्। अन्यतः लार्सन-एण्ड-टूब्रो, बजाज-फाइनेंस तथा इन्फोसिस इत्येषां बाजार-पूंजीकरणे 32,977.34-कोटि-रूप्यकाणां वृद्धिः अभवत्।
रिलायंस-इण्डस्ट्रीज् इत्यस्य विपण-पूंजीकरणं 89,720.30-कोटि-रूप्यकाणि न्यूनं भूत्वा 18,24,515.62-कोटि-रूप्यक-स्तरं प्राप्तम्। एचडीएफसी-धनागारस्य 37,248.59-कोटि-रूप्यकाणि पतित्वा 11,64,018.69-कोटि-रूप्यक-स्तरं गतम्। स्टेट-बैंक-ऑफ-इण्डिया इत्यस्य 35,399.42-कोटि-रूप्यकाणां न्यूनतया 9,41,569.15-कोटि-रूप्यक-स्तरं प्राप्तम्।तथैव आईसीआईसीआई-धनागारस्य 8,121.76-कोटि-रूप्यकाणि न्यूनानि भूत्वा 8,83,551.30-कोटि-रूप्यक-स्तरं गतम्। भारती-एयरटेलस्य 2,480.42-कोटि-रूप्यकाणां न्यूनतया 10,50,413.33-कोटि-रूप्यक-स्तरं प्राप्तम्। हिन्दुस्तान-यूनिलीवरस्य 2,091.13-कोटि-रूप्यकाणि न्यूनीभूय 4,87,540.19-कोटि-रूप्यक-स्तरं प्राप्तम्। टाटा-कंसल्टेन्सी-सर्विसेज (टीसीएस) इत्यस्य 271.35-कोटि-रूप्यकाणां न्यूनतया 8,64,668.65-कोटि-रूप्यक-स्तरं गतम्।
अन्यतः लार्सन-एण्ड-टूब्रो, बजाज-फाइनेंस तथा इन्फोसिस इत्येषां विपण-पूंजीकरणे समष्ट्या 32-सहस्र-कोटि-रूप्यकाधिकं वृद्धिः अभवत्। आरोहण-अवरोहण-परिणामस्वरूपं भारतीय-जीवन-बीमा-निगमः शीर्ष-दश-सूच्याः बहिः गतः, लार्सन-एण्ड-टूब्रो पुनः सूचीं प्रविष्टवती।
हिन्दुस्थान समाचार / अंशु गुप्ता