Enter your Email Address to subscribe to our newsletters

जयपुरम्, 29 मार्चमासः (हि.स.)। जयपुर-अन्ताराष्ट्रिय-विमानतले यात्रिणां सौविध्यर्थं ‘उड़ान-यात्री-कैफे’ इत्यस्य आरम्भः कृतः, यत्र केवलं 10 रूप्यकेण अल्पाहारम् उपलब्धं भविष्यति। केन्द्रीय-नागरिक-उड्डयन-मन्त्री राममोहन-नायडू-किंजरापु रविवासरे अस्य वर्चुअल-उद्घाटनं कृतवान्।
विमानतलस्य टर्मिनल-2 इत्यस्य प्री-चेक-इन-प्रस्थान-क्षेत्रे आरब्धे अस्मिन् कैफे-मध्ये यात्रिभ्यः जलं, चायम्, कॉफेयम्, अल्पाहारः इत्यादयः पदार्थाः अल्पमूल्येन प्रदास्यन्ते। अस्य उपक्रमस्य उद्देश्यं वायु-यात्रां सामान्य-मध्यम-वर्गस्य कृते अधिक-सुलभां कर्तुम् इति उक्तम्।
मन्त्रिणा उक्तं यत् ‘उड़ान-यात्री-कैफे’ इयं योजना वायु-यात्रां सर्वेषां कृते सुलभां कर्तुं सर्वकारस्य प्रयासस्य भागः अस्ति। विमानतल-प्रशासनस्य अनुसारं एषः उपक्रमः ‘उड़ान’-योजनां सुदृढां करिष्यति तथा यात्रिभ्यः स्वल्पमूल्य-सुविधाः प्रदास्यति। उद्घाटन-समये विविध-विमानतल-अधिकारिणः उपस्थिताः आसन्।
उल्लेखनीयम् अस्ति यत् जयपुर-अन्ताराष्ट्रिय-विमानतलम् राज्यस्य अत्यन्त-व्यस्तं विमानतलम् अस्ति। वित्त-वर्षे 2024-25 मध्येऽत्र 60 लक्षाधिक-यात्रिणाम् आगमन-निर्गमनं अभिलेखितम्, प्रतिदिनं च प्रायः 120 उड्डयनानां संचालनं भवति।
हिन्दुस्थान समाचार / अंशु गुप्ता