उज्जैनम् - रुपाली गांगुली अकरोत् महाकालदर्शनम्
उज्जैनम्, 29 मार्चमासः (हि.स.)। प्रसिद्धा दूरदर्शन-अभिनेत्री रूपाली गांगुली उज्जयिन्यां स्थिते विश्वप्रसिद्धे श्री महाकालेश्वर मंदिर भगवतः महाकालस्य दर्शनं कृत्वा आध्यात्मिकां दिव्यतां अनुभूतवती। रविवासरे प्रातःकाले आयोजितायां भस्म-आरत्यां सहभागि
Ujjain: Rupali Ganguly visited Mahakal


उज्जैनम्, 29 मार्चमासः (हि.स.)।

प्रसिद्धा दूरदर्शन-अभिनेत्री रूपाली गांगुली उज्जयिन्यां स्थिते विश्वप्रसिद्धे श्री महाकालेश्वर मंदिर भगवतः महाकालस्य दर्शनं कृत्वा आध्यात्मिकां दिव्यतां अनुभूतवती। रविवासरे प्रातःकाले आयोजितायां भस्म-आरत्यां सहभागित्वा सा ज्योतिर्लिङ्गस्य भगवान् महाकालेश्वरस्य आशीर्वादं प्राप्तवती।

श्रीमहाकालेश्वर-मन्दिर-प्रबन्ध-समितेः पक्षतः उपप्रशासकः एस. एन. सोनी महोदयः तस्याः स्वागतं सत्कारं च कृतवान्। उल्लेखनीयम् अस्ति यत् एषा आरती महाकाल-मन्दिरस्य अतीव विशेषा प्राचीना च परम्परा मन्यते, यस्यां सहभागितुं देशविदेशेभ्यः अपि श्रद्धालवः आगच्छन्ति।

भस्म-आरती या ब्रह्ममुहूर्ते क्रियते, सा भगवान् शिवस्य महाकाल-रूपस्य विशेषा आराधना अस्ति। अस्मिन् अनुष्ठाने चिताभस्मना भगवानः श्रृङ्गारः क्रियते, यत् जीवन-मृत्योः सत्यस्य प्रतीकं मन्यते। एषा अद्वितीया परम्परा द्रष्टुं तत्र सहभागितुं च सर्वेभ्यः अवसरः न लभ्यते, अतः एषः अनुभवः अत्यन्तं विशिष्टः मन्यते।

रूपाली गांगुली या स्वस्य लोकप्रियतया अभिनयकौशलेन च प्रसिद्धा अस्ति, अस्मिन् समये पूर्णतया भक्तौ लीनाभवत्। पारम्परिक-वस्त्राणि धारयित्वा सा मन्दिर-परिसरे प्रवेशमात्रेण एव भगवान् महाकालस्य प्रति स्वश्रद्धां प्रदर्शितवती। भस्म-आरत्यां सा विधिपूर्वकं पूजां कृत्वा ध्यानपूर्वकं आरत्याः आनन्दं अनुभूतवती। तस्याः मुखे आध्यात्मिक-शान्तिः सन्तोषश्च स्पष्टतया दृष्टः, यः अस्य पावन-अनुभवस्य गाम्भीर्यं दर्शयति।

मन्दिर-प्रशासनस्य पक्षतः तस्याः भव्यं स्वागतं कृतम्। उपप्रशासकः एस. एन. सोनी तस्याः अभिनन्दनं कृत्वा सम्मानरूपेण प्रसादं स्मृतिचिह्नं च अर्पितवान्। अस्मिन् अवसरि मन्दिरस्य पुजारिणः अधिकारीणः च तस्याः स्वागतं कृत्वा मन्दिरस्य परम्पराणां महत्वं च अवगतवन्तः।

दर्शनानन्तरं सा माध्यमैः सह संक्षिप्तसंवादे स्वभावनाः व्यक्तवती यत् महाकालस्य सन्निधौ आगत्य तस्याः अद्भुता शान्तिः सकारात्मक-ऊर्जा च अनुभूता। सा अवदत् यत् एषः तस्याः जीवनस्य अतीव विशेषः स्मरणीयः च क्षणः अस्ति। तया सर्वेभ्यः श्रद्धालुभ्यः अपि आह्वानं कृतं यत् ते अपि समयं कृत्वा महाकालस्य दर्शनं अवश्यं कुर्वन्तु।

तस्याः यात्रायाः छायाचित्राणि चलचित्राणि च सामाजिक-माध्यमेषु शीघ्रं प्रसृतानि, यानि तस्याः प्रशंसकैः अतीव रोचन्ते। तेषां प्रशंसकैः तस्याः सरलता श्रद्धा च प्रशंसिता, अनेकाः सकारात्मकाः प्रतिक्रियाः अपि प्रदत्ताः।

---------------

हिन्दुस्थान समाचार