Enter your Email Address to subscribe to our newsletters

मुम्बईनगरम्, २९ मार्चमास: (हि.स.)। दिग्गज-उद्योगपति:, रेमण्ड-समूहस्य पूर्वाध्यक्षः तथा पद्मभूषण-पुरस्कारेण अलंकृतः डॉ.विजयपत-कैलाशपत-सिंघानिया इत्यस्य अन्त्येष्टि-संस्कारः क्रियते। शनिवासरे ८७ वर्षे वयसि मुम्बई-नगरे अन्तिमं श्वासं त्यक्तवान् सिंघानियाया: आत्मनः शान्त्यर्थं अपराह्णे सार्धैक-वादने प्रासादे (एल.डी. रूपारेल-मार्गे) प्रार्थना-सभा आयोजिता भविष्यति। ततः अनन्तरं अपराह्णे त्रिवादने चन्दनवाटी-स्थले तस्य अन्त्येष्टि-संस्कारः भविष्यति। एतां सूचनां पुत्रः गौतमसिंघानिया ‘एक्स’ इति माध्यमेन अयच्छत्। गौतम: रेमण्ड-समूहस्य अध्यक्षः प्रबन्ध-निदेशकश्च अस्ति।
विजयपत-सिंघानिया विमान-क्षेत्रं प्रति स्वस्य विशेष-रुच्याः कृते अपि प्रसिद्धः आसीत्। उष्ण-वायुपूरित-गोलकयानस्य (हॉट-एयर-बैलून) माध्यमेन अतीवोच्च-उड्डयनस्य विश्व-अभिलेखः अपि तस्य नाम्नि आसीत्। सः प्रायः द्वौ दशकौ यावत् रेमण्ड-समूहस्य नेतृत्वं कृतवान्। अनन्तरं २००० तमे वर्षे सः संस्थायाः दायित्वं गौतमसिंघानियाय न्यवेदयत्। सः स्वस्य ३७ प्रतिशत-भागम् अपि पुत्रस्य नाम्नि समर्पितवान्। विजयपतसिंघानिया रेमण्ड-संस्थां लघु-मिलनात् आरभ्य वैश्विक-साम्राज्यरूपे परिवर्तयितुं सफलः अभवत्। गौतमेन सह तस्य नैयायिक-विवादाः अपि अभवन्, किन्तु अनन्तरं पिता-पुत्रौ विवादाः समाधानं कृतवन्तौ।
हिन्दुस्थान समाचार / अंशु गुप्ता