पश्चिम बंगालस्य अशांतेः प्रभावः पूर्ण देशे पतति : दिलीप घोषः
खड़गपुरम्, 29 मार्चमासः (हि. स.)। भारतीयजनतापक्षस्य वरिष्ठः नेता दिलीप घोषः पश्चिमबङ्गराज्ये विधिव्यवस्थायाः स्थितेः विषये चिन्तां व्यक्तवान्। खड्गपुरसदरात् भाजपा प्रत्याशी दिलीप घोषः रविवासरे प्रातःकाले खड्गपुरे पत्रकारैः सह संवादं कुर्वन् उक्तव
भाजपा नेता दिलीप घोष


खड़गपुरम्, 29 मार्चमासः (हि. स.)।

भारतीयजनतापक्षस्य वरिष्ठः नेता दिलीप घोषः पश्चिमबङ्गराज्ये विधिव्यवस्थायाः स्थितेः विषये चिन्तां व्यक्तवान्। खड्गपुरसदरात् भाजपा प्रत्याशी दिलीप घोषः रविवासरे प्रातःकाले खड्गपुरे पत्रकारैः सह संवादं कुर्वन् उक्तवान् यत् बङ्गे अशान्तेः प्रभावः समग्रे देशे दृश्यते। बाङ्ग्लादेशात् आगताः जनाः, येषु अपराधिनः आतङ्कवादिनश्च सन्ति, ते सर्वत्र देशे विनाशं कुर्वन्ति। अतः बङ्गे उत्तमशासनस्य आवश्यकता वर्तते।

भाजपा प्रत्याशी दिलीप घोषः अवदत् यत् बङ्गवासिनां सम्मानः विश्वे सर्वत्र अस्ति। भवन्तः बहिः प्रदेशेभ्यः, यथा बिहारगुजरातप्रदेशाभ्यां प्रत्याशीन् आनयन्ति, येन स्पष्टं भवति यत् कः कस्य समर्थनं करोति।

तृणमूलकाङ्ग्रेसस्य नेता तथा मुख्यमन्त्री ममता बनर्जेः नवीनवक्तव्यस्य विषये दिलीपः अवदत् यत् सा मुर्शिदाबादे भयप्रदर्शनं कृतवती। सीएए तथा वक्फ विधेयकस्य पारिते सति मुर्शिदाबादे या अफरातफरी अभवत्, तस्याः उत्तरदायित्वं कस्य अस्ति। ममता मुख्यमन्त्री अस्ति, अधिकारः तस्याः हस्ते अस्ति, तर्हि हिन्दवः मुर्शिदाबादात् मालदां प्रति किमर्थं पलायिताः, एतत् तया उत्तरं दातव्यम्।

---------------

हिन्दुस्थान समाचार