ईरानः अमेरिका  इजराइल इत्यनयोः आधारमूलस्थितिः लक्षीकृता
तेहरानम्, 29 मार्चमासः (हि.स.)। इस्लामिक रिवोल्यूशन गार्ड्स कॉर्प्स (आईआरजीसी) नामकसंस्था उक्तवती यत् तेन ‘ट्रू प्रॉमिस 4’ नामके अभियाने नूतनतरङ्गे आक्रमणेषु अमेरिका तथा इज़राइलसंबद्धानि वायुसैनिक तथा ड्रोनाधारितानि आधारभूतसंरचनानि, क्षेत्रीयसैन
सांकेतिक


तेहरानम्, 29 मार्चमासः (हि.स.)।

इस्लामिक रिवोल्यूशन गार्ड्स कॉर्प्स (आईआरजीसी) नामकसंस्था उक्तवती यत् तेन ‘ट्रू प्रॉमिस 4’ नामके अभियाने नूतनतरङ्गे आक्रमणेषु अमेरिका तथा इज़राइलसंबद्धानि वायुसैनिक तथा ड्रोनाधारितानि आधारभूतसंरचनानि, क्षेत्रीयसैनिकस्थानानि च लक्ष्यीकृतानि। तस्याः वक्तव्यानुसारं रविवासरस्य प्रातःकाले आरब्धे अस्मिन् अभियाने क्षेपणास्त्रैः ड्रोनयन्त्रैश्च आक्रमणैः बहूनि रणनीतिकस्थानानि लक्ष्यीकृतानि।

ईरानदेशस्य अर्धसरकारी समाचारसंस्था तसनीम न्यूज एजेंसी इत्यनेन उक्तं यत् इस्लामिक रिवोल्यूशन गार्ड्स कॉर्प्स (आईआरजीसी) प्रत्याक्रमणस्य नवीनतरङ्गे अमेरिका तथा इज़राइलयोः वायुसैनिक-ड्रोनसंरचनानि, तथा तयोः सेनानां क्षेत्रीयस्थानानि लक्ष्यीकृतवती अस्ति।

आईआरजीसी संस्थया 29 मार्च दिने प्रकाशिते वक्तव्ये उक्तं यत् ‘ट्रू प्रॉमिस-4’ नामकस्य अभियानस्य षट्-अशीतितमा (86) तरङ्गा रविवासरस्य प्रातःकाले बहुषु चरणेषु आरब्धा। अस्मिन् आईआरजीसी संस्थायाः एयरोस्पेस सेना तथा नौसैनिकबलैः क्षेत्रे अमेरिका-इज़राइलयोः स्थानेषु समन्विताः क्षेपणास्त्र-ड्रोन आक्रमणाः कृताः।

अभियानस्य प्रथमे चरणे क्षेपणास्त्र-ड्रोन आक्रमणैः अमेरिकीस्थानानि—विक्टोरिया, आरिफजान, अल खर्ज—इत्यादिषु वायुसैनिक-ड्रोन संचालनसंरचनानि तथा आयुधभाण्डागाराणि लक्ष्यीकृतानि।

आईआरजीसी उक्तवती यत् परवर्तिषु चरणेषु अमेरिका-इज़राइलयोः सेनास्थानानि, कोमाला समूहसम्बद्धाः तत्त्वाः च, विविधेषु प्रदेशेषु—अराद, नेगेव, तेल अवीव, एरबिल, अमेरिकी फिफ्थ फ्लीट, अल धफरा—इत्यादिषु लक्ष्यीकृताः।

उल्लेखनीयम् अस्ति यत् अमेरिका तथा इज़राइलयोः सेनाभ्यां 28 फरवरी दिने संयुक्तरूपेण ईरानदेशे आक्रमणं कृतम्। अस्मिन् आक्रमणे ईरानस्य सर्वोच्चनेता अयातुल्ला सैयद अली खामेनेई इत्यादयः वरिष्ठसैनिकाधिकारिणः, नागरिकाश्च मृताः। एतेषां आक्रमणानां कारणात् ईरानस्य सैनिक-नागरिकस्थानानि महता हानिना पीडितानि, आधारभूतसंरचनासु च व्यापकः विनाशः जातः। तस्य प्रत्युत्तररूपेण ईरानेन अधिकृतप्रदेशेषु तथा क्षेत्रीयस्थानिषु स्थितानि अमेरिका-इज़राइलयोः स्थानानि क्षेपणास्त्र-ड्रोनतरङ्गैः लक्ष्यीकृतानि।

-------------------

हिन्दुस्थान समाचार