बिहारपरिषद् - माध्यमिकवार्षिकपरीक्षायाः 2026 परिणामोऽद्य निर्गमिष्यति
पटना, 29 मार्चमासः (हि.स.)। बिहारविद्यालयपरीक्षासमितेः (बीएसईबी) द्वारा मैट्रिकवार्षिकपरीक्षा 2026स्य परिणामः अद्य, 29 मार्च 2026 दिनाङ्के अपराह्णे 01:15 वादने प्रकाशितः भविष्यति। अस्य परिणामस्य औपचारिकप्रकाशनं बिहारसरकारस्य शिक्षाविभागस्य मन्त्
बिहारपरिषद् - माध्यमिकवार्षिकपरीक्षायाः 2026 परिणामोऽद्य निर्गमिष्यति


पटना, 29 मार्चमासः (हि.स.)।

बिहारविद्यालयपरीक्षासमितेः (बीएसईबी) द्वारा मैट्रिकवार्षिकपरीक्षा 2026स्य परिणामः अद्य, 29 मार्च 2026 दिनाङ्के अपराह्णे 01:15 वादने प्रकाशितः भविष्यति।

अस्य परिणामस्य औपचारिकप्रकाशनं बिहारसरकारस्य शिक्षाविभागस्य मन्त्री सुनीलकुमारः द्वारा क्रियते।

अस्मिन् अवसरे बिहारविद्यालयपरीक्षासमितेः अध्यक्षःआनन्दकिशोरस्तथा शिक्षाविभागस्य अपरमुख्यसचिवः भी राजबिंदरोऽपि उपस्थिताः भविष्यन्ति।

छात्राः छात्र्यश्च स्वस्य परिणामं बिहारबोर्डस्य आधिकारिकजालपुटे द्रष्टुं शक्नुवन्ति।

---------------

हिन्दुस्थान समाचार