Enter your Email Address to subscribe to our newsletters


देहरादूननगरम्, 29 मार्चमासः (हि.स.)। राष्ट्रीय-स्वयंसेवक-संघस्य उत्तराखण्ड-प्रान्त-प्रचार-प्रमुखः संजयः उक्तवान् यत् भारतस्य सनातन-परम्परा, भारतीय-संस्कृतिः तथा हिन्दुत्वस्य जीवन-दृष्टिः पुनः विश्वे प्रतिष्ठां प्राप्नोति, भारतदेशः च स्वगौरवस्य दिशि प्रत्यागच्छति। सः अवदत् यत् विश्वम् अद्य भारतं प्रति आशया मार्गदर्शनार्थं च पश्यति तथा शीघ्रमेव भारतदेशः पुनः विश्वगुरोः आसनं प्राप्स्यति।सः उक्तवान् यत् वर्तमानकाले वैश्विक-समस्याषु भारतस्य प्राचीन-ज्ञान-परम्परा, आध्यात्मिक-दृष्टिः तथा सांस्कृतिक-सम्पदा शान्तेः संतुलनस्य च आधारं ददाति। समाजे एकता-समरसता-सांस्कृतिक-मूल्यानां च सुदृढीकरणस्य आवश्यकता अपि तेन प्रतिपादिता।
भारतीय-पञ्चाङ्गस्य विषये सः अवदत् यत् एषा प्राचीनतमा वैज्ञानिक-कालगणना-पद्धतिः अस्ति। वर्तमानकाले विक्रम-संवत् २०८३ प्रवृत्तः, यः ग्रेगोरियन-पञ्चाङ्गात् ५७ वर्षाणि अग्रे सन्ति।
सः स्वयंसेवकेभ्यः आह्वानं कृत्वा समाजस्य सङ्घटनं, सेवा, राष्ट्रभक्तिः, पर्यावरण-रक्षणं च बलवत् कर्तुं आग्रहं कृतवान् - “पानीयं रक्षत, वृक्षान् रोपयत, रसायनिकं त्यजत” इति सन्देशः अपि दत्तः।
कार्यक्रमानन्तरं त्रिसहस्राधिकैः स्वयंसेवकैः पूर्ण-गणवेशेन पथ-संचलनं कृतं, मार्गे पुष्पवर्षया “भारत-माता-जय” इति घोषैः च स्वागतं कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता