Enter your Email Address to subscribe to our newsletters

-होल्यां गोमाता गोपालकानां ग्रामीण महिलानां च जीवने पूरितो रंगः
लखनऊ, 03 मार्चमासः (हि.स.)। उत्तरप्रदेशे अस्मिन् वर्षे होली-पर्वणः उल्लासः केवलं वर्णैः न, अपि तु गोमातरः आशीर्वादेन ग्राम्य-नारीणां स्वावलम्बनेन च परिपूर्णः भविष्यति। योगी-आदित्यनाथ-सरकारस्य नेतृत्वे राज्यस्य विभिन्न-जनपदेषु पूर्णतया प्राकृतिक-तत्त्वैः पारम्परिकम् ‘ऑर्गेनिक-गुलाल’ निर्मीयते। एतत् गुलालं त्वचायाः कृते सुरक्षितं, ग्राम्य-अर्थव्यवस्थां सुदृढां कुर्वन् नारी-सशक्तीकरणस्य नूतनम् अध्यायं लिखति।
प्रकृति-वर्णैः सुसज्जितः उत्सवः
गो-सेवा-आयोग-अध्यक्षः श्याम-बिहारी-गुप्तः अवदत् यत् अस्याः अभिनव-योजनायाः अन्तर्गतं ग्राम्य-नार्यः गोशाला-पालकैः सह प्राकृतिक-तत्त्वानां साहाय्येन गुलाल-निर्माणं कुर्वन्ति। अस्मिन् गोमय-कण्डानां भस्म, गुलाब-पुष्पदलानि, चुकन्दर, पालक, जाम्बू-पत्राणि, नील-तत्त्वं च उपयुज्यते। बाजार-उपलब्ध-रासायनिक-वर्णानां अपेक्षया एतत् गुलालं पूर्णतया पर्यावरण-मित्रं त्वचा-सुरक्षितं च अस्ति।
गोमय-भस्मनः वैज्ञानिक-आधारः
अस्य गुलालस्य प्रमुख-विशेषता देशी-गोमय-कण्ड-भस्मनः उपयोगः अस्ति। परम्परया शुद्धिकारकत्वेन प्रसिद्धे अस्मिन् भस्मनि वैज्ञानिक-रूपेण प्रमाणिताः क्षारीय-तत्त्वाः विद्यन्ते, ये आर्द्रतां न्यूनां कुर्वन्ति सूक्ष्मजीवानां वृद्धिं च निरोद्धुम् समर्थाः। प्रसंस्करणानन्तरं एषा भस्म गुलालस्य मृदु-आधारं प्रददाति, येन वर्ण-विस्तारः श्रेष्ठः भवति कृत्रिम-भरकस्य आवश्यकता न भवति।
जीविकासृजनं स्वावलम्बनं च
आयोग-अध्यक्षः श्याम-बिहारी-गुप्तः उक्तवान् यत् अस्याः योजनायाः अन्तर्गतं बुलन्दशहर, मथुरा, बिजनौर, सहारनपुर, संभल, उरई, मुरादाबादादिषु बहुषु जिलेषु व्यापक-रूपेण रोजगार-सृजनं जातम्। एषः प्रयासः केवलं स्वास्थ्यकर-होली-आयोजनस्य दिशि सकारात्मक-पदम् न, अपि तु स्थानीय-संसाधनानां सतत-उपयोगस्य प्रेरणादायकम् उदाहरणम् अपि अस्ति। गोशालाभ्यः प्राप्त-सामग्रीणां उपयोगेन गोवंश- संरक्षणं भवति, नार्यः च आत्मनिर्भराः भवन्ति।
हिन्दुस्थान समाचार