मध्यप्रदेशे ‘शतक’ इति चलचित्रं कर–मुक्तम्, मुख्यमन्त्री डॉ.मोहनयादवेन घोषिता
भोपालनगरम्, ०३ मार्चमासः (हि.स.) — मध्यप्रदेश–राज्यस्य मुख्यमन्त्री डॉ.मोहनयादव: यथासूचितवान् यत् हिन्दी–चलचित्रं ‘शतक’ सम्पूर्ण–राज्ये कर–मुक्तं भविष्यति। मुख्यमन्त्री ‘एक्स’ मध्ये उक्तवान् यत् चलचित्रं राष्ट्रसेवा–संस्कारयोः सशक्त–सन्देशं प्रदत्त
फिल्म शतक का पोस्टर


भोपालनगरम्, ०३ मार्चमासः (हि.स.) — मध्यप्रदेश–राज्यस्य मुख्यमन्त्री डॉ.मोहनयादव: यथासूचितवान् यत् हिन्दी–चलचित्रं ‘शतक’ सम्पूर्ण–राज्ये कर–मुक्तं भविष्यति। मुख्यमन्त्री ‘एक्स’ मध्ये उक्तवान् यत् चलचित्रं राष्ट्रसेवा–संस्कारयोः सशक्त–सन्देशं प्रदत्तवान्।

चलचित्रे राष्ट्रीय–स्वयंसेवक–संघस्य शताब्दी–यात्रा दर्शिता। कथा आरभते १९२५ तमे वर्षे नागपुरे डॉ. केशव बलिराम हेडगेवार–संस्थापनेन तथा संघस्य विस्तारः प्रदर्शितः। हेडगेवार–माधव–सदाशिव–गोलवलकर (गुरुजी)–जीवनं, स्वतंत्रता–संग्रामे संघस्य भूमिका, विभाजनकाल:, दादरा–नगर–हवेली–मुक्ति:, कश्मीर–समस्या च चित्रितानि।

चलचित्रे एआई तथा उन्नत–ग्राफिक्स-माध्यमेन वीर–सावरकर:, महात्मा–गांधी, सरदार–पटेल:, नेताजी–सुभाषचन्द्र–बोस: इत्येतादृश–ऐतिहासिक–व्यक्तित्वानि जीवित–प्रदर्शितानि।

निर्देशनम् आशीष–मॉल:, निर्माणम् वीर–कपूर:, कथा–वाणी अजय–देवगन्। मुख्यमन्त्रिण: निर्णयस्य प्रदेशे व्यापक–स्वागतं जातम्।

हिन्दुस्थान समाचार / अंशु गुप्ता