आंगनबाड़ी व्यवस्थायै मिलिता नूतना दृढता, जालौने 17 केंद्रभवनानां लोकार्पणम्
उरई, 30 मार्चमासः (हि.स.)। मुख्यमंत्रिणा योगीआदित्यनाथेन सोमवासरे लखनऊनगरस्य लोकभवनात् आङ्गनबाडीसेवानां सुदृढीकरणार्थं विशालस्तरेण योजनानां शुभारम्भः कृतः। अस्मिन् कार्यक्रमे मुख्यमन्त्रिणा ६९,८०४ आङ्गनबाडीकार्यकर्त्रीभ्यः मुख्यसेविकाभ्यश्च स्मार
आंगनवाड़ी


उरई, 30 मार्चमासः (हि.स.)।

मुख्यमंत्रिणा योगीआदित्यनाथेन सोमवासरे लखनऊनगरस्य लोकभवनात् आङ्गनबाडीसेवानां सुदृढीकरणार्थं विशालस्तरेण योजनानां शुभारम्भः कृतः। अस्मिन् कार्यक्रमे मुख्यमन्त्रिणा ६९,८०४ आङ्गनबाडीकार्यकर्त्रीभ्यः मुख्यसेविकाभ्यश्च स्मार्टफोनवितरणम्, द्विलक्षाधिकानां ग्रोथमॉनिटरिङ् उपकरणानां वितरणम्, १८,४४० कार्यकर्त्रीसहायिकाभ्यः नियुक्तिपत्रप्रदानम् तथा ४५० कोटिरूप्यकव्ययेन ३,१७० आङ्गनबाडीकेंद्रभवनानां एवं १४० बालविकासपरियोजनाकार्यालयानां लोकार्पणशिलान्यासौ समाविष्टौ।

एषः महत्त्वपूर्णः कार्यक्रमः जनपदे जालौन इति स्थले विकासभवनस्य रानीलक्ष्मीबाईसभागारे सजीवप्रसारणरूपेण प्रदर्शितः, यत्र सदरविधायकः गौरीशङ्करवर्मा, माधौगढ़विधायकः मूलचन्दनिरञ्जनः, कालपीविधायकः विनोदचतुर्वेदी, जिलाधिकारी राजेशकुमारपाण्डेयः, पुलिसअधीक्षकः डॉ. दुर्गेशकुमारः, जलशक्तिमन्त्रिणः प्रतिनिधिः अरविन्दचौहानः, मुख्यविकासाधिकारी केकेसिंहः अन्ये च जनप्रतिनिधयः अधिकारीणश्च उपस्थिताः सन्तः मुख्यमन्त्रिणः उद्बोधनम् अशृण्वन्।

कार्यक्रमस्य अनन्तरं जनप्रतिनिधिभिः जिलाधिकाऱिणा च जनपदस्य १७ नवनिर्मितानां आङ्गनबाडीकेंद्रभवनानां लोकार्पणम् कृतम्। तथा उरईनगरस्य माधौगढ़क्षेत्रस्य च द्वयोः बालविकासपरियोजनाकार्यालययोः शिलान्यासः कृत्वा शिलापट्टस्य अनावरणम् अपि कृतम्। सहैव नवचयनिताभ्यः ३४ सहायिकाभ्यः नियुक्तिपत्राणि वितरितानि।

जिलाकार्यक्रमाधिकाऱिणा उक्तं यत् जालौनपरियोजनायां १५ तथा कुठौंदपरियोजनायां १९ सहायिकानां नियुक्तिप्रक्रिया सम्पन्ना अस्ति, अन्यासु परियोजनासु तु आगामिद्विदिनेषु प्रक्रिया पूर्णा भविष्यति तथा नियुक्तिपत्राणि अपि वितरितानि भविष्यन्ति। कार्यक्रमे जालौनकुठौंदपरियोजनाभ्यां उपस्थिताभ्यः नवचयनितासहायिकाभ्यः नियुक्तिपत्रप्रदानम् अपि कृतम्।

तेन अपि उक्तं यत् जनपदजालौनाय ३९ स्मार्टफोनाः तथा प्रायः सर्वेषां आङ्गनबाडीकेंद्राणां कृते ग्रोथमॉनिटरिङ् उपकरणानि आवंटितानि सन्ति, ये प्राप्तमात्रेण सम्बन्धिताभ्यः कार्यकर्त्रीभ्यः प्रदास्यन्ते।

सदरविधायकः गौरीशङ्करवर्मा उक्तवान् यत् प्रदेशसरकारेण आङ्गनबाडीसेवाः आधुनिकप्रौद्योगिक्या सह संयोज्य महिला सशक्तिकरणस्य दिशि ऐतिहासिकं कार्यं क्रियते। तेन उक्तं यत् एतत् मातृशिशुस्वास्थ्यसेवाः अधिकप्रभाविण्यः करिष्यति।

माधौगढ़विधायकः मूलचन्दनिरञ्जनः उक्तवान् यत् आङ्गनबाडीकेंद्राणि ग्रामीणक्षेत्रेषु पोषणशिक्षयोः दृढं आधारं सन्ति, येषां सुदृढीकरणेन समाजस्य अन्तिमपङ्क्तिपर्यन्तं लाभः प्राप्स्यते।

कालपीविधायकः विनोदचतुर्वेदी उक्तवान् यत् सरकारेण प्रदीयमानाः सुविधाः आङ्गनबाडीकार्यकर्त्रीणां कार्यं सुलभं करिष्यन्ति तथा बालानां सर्वाङ्गीणविकासे महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति।

अस्मिन् अवसरे उपस्थिताः अधिकारीणः अपि कार्यक्रमस्य सफलसम्पादनाय योगदानं दत्तवन्तः तथा योजनानां प्रभाविक्रीयान्वयनस्य संकल्पं कृतवन्तः।

---------------

हिन्दुस्थान समाचार