Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 30 मार्चमासः (हि.स.)।
भारतीयजनतादलस्य एकं प्रतिनिधिमण्डलं सोमवासरे दिल्ली नगरे मुख्यनिर्वाचनायुक्तं मिलित्वा पश्चिमबंगाल राज्ये सत्तारूढायाः तृणमूलकाङ्ग्रेस इत्यस्याः विरुद्धं शिकायतां कृतवन्तः। भाजपया स्वस्य षट्पृष्ठात्मकशिकायतापत्रे उक्तं यत् निर्वाचनपर्याये पश्चिमबंगाले तृणमूलकाङ्ग्रेसदलं निर्वाचनप्रक्रियां अपहर्तुम् प्रयतते। ममताबनर्जी गृहं गृहं गत्वा मतदातॄन् भयप्रदर्शनं करोति इति आरोपः कृतः।
निर्वाचनआयोगं प्रति गते अस्मिन् प्रतिनिधिमण्डले केन्द्रीयमन्त्री पीयूषगोयलः, किरेनरिजिजूः, सुकान्तमजूमदार, सांसदः अरुणसिंह, अनिलबलूनी, ओमपाठक च सम्मिलिताः आसन्।
आयोगेन सह मेलनस्य अनन्तरं केन्द्रीयमन्त्री रिजिजू मीडियाकर्मिभ्यः उक्तवान् यत् भाजपया निर्वाचनआयोगाय ज्ञापनं समर्पितम्। भाजपया उक्तं यत् तृणमूलकाङ्ग्रेस राज्ये लोकतान्त्रिकप्रक्रियायाः उपरि पूर्णनियन्त्रणं स्थापयितवती। रिजिजू आरोपितवान् यत् मुख्यमन्त्री बनर्जी स्वयम् गृहं गृहं गत्वा मतदातॄन् धमयति तथा ये जनाः भाजपायै मतं दास्यन्ति तेषां परिणामान् भोगितुं चेतयति। राज्यस्य सम्पूर्णं प्रशासनतन्त्रं तृणमूलकाङ्ग्रेस प्रभावेन कार्यं करोति इति अपि सः उक्तवान्।
केन्द्रीयमन्त्रिणा उक्तं यत् निर्वाचनआयोगात् आग्रहः कृतः यत् पश्चिमबंगाले निर्वाचनं निष्पक्षतया स्वातन्त्र्येण च आयोज्यताम्। बलपूर्वकनिर्वाचनजयस्य या पुरातनी प्रवृत्तिः सा अस्मिन् समये पुनः न भवेत् इति अपि सः अवदत्।
रिजिजू अवदत् यत् निर्वाचन-आयोगेन एषा परिवादोऽत्यन्तं गम्भीरतया स्वीक्रता तथा निष्पक्षस्वतन्त्रनिर्वाचनस्य सुनिश्चित्यर्थं आवश्यकपदानि स्वीकृतानि भविष्यन्ति इति विश्वासः दत्तः। सः अपि उक्तवान् यत् राज्ये प्रवर्तमाननिर्वाचनकाले जनतया तृणमूलकाङ्ग्रेस प्रति स्पष्टं विरोधः प्रदर्श्यते।
------------
हिन्दुस्थान समाचार