Enter your Email Address to subscribe to our newsletters

जयपुर-नगरम्, ३० मार्चमासः (हि.स.)। चैत्र-पूर्णिमायां २ अप्रैल-मासे केसरी-नन्दनस्य हनुमतः जन्मोत्सवः हर्षोल्लासेन आचरितः भविष्यति। प्रातःकाले वैदिक-मन्त्र-उच्चारणेन सह अभिषेकः, ततः शृङ्गारः, महारार्तिकी च भविष्यति, यत्र मन्दिरेषु श्रद्धालूनां विशालः समागमः अपेक्षितः।
नगरस्य विविधेषु मन्दिरेषु विशेष-पूजन-कार्यक्रमाः आयोजिताः भविष्यन्ति। काले-हनुमान-मन्दिरे सहस्रधाराभिषेकः, उद्घटित-हनुमान-मन्दिरे १०८ औषधिद्रव्यैः महाभिषेकः, अन्येषु मन्दिरेषु पंचामृताभिषेकः, सुन्दरकाण्ड-पाठाः, मोदक-नैवेद्य-समर्पणं च भविष्यति।
सर्वत्र मन्दिराणि पुष्पैः अलङ्कृतानि भविष्यन्ति तथा भक्ताः उत्साहेन श्रद्धया च सहभागं करिष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता