Enter your Email Address to subscribe to our newsletters

रायपुरम् 30 मार्चमासः (हि.स.)।
मुख्यमन्त्री विष्णुदेवसायः अद्य राजधानी रायपुरे आयोजितेषु विभिन्नेषु कार्यक्रमेषु सहभागी भविष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री प्रातः ९:३० वादने नेताजी सुभाषचन्द्रबोस राज्यपुलिस अकादमी इति स्थलं गमिष्यति, यत्र सः दीक्षान्तपरेडसमारोहे भागं ग्रहीष्यति।
ततः अनन्तरं सः प्रातः ११:३५ वादनात् १२:०० वादनपर्यन्तं दिल्ली नगरात् अम्बिकापुर नगरं प्रति आरभ्यमाणायाः वायुसेवायाः उद्घाटनसमारोहे आभासी रूपेण सहभागी भविष्यति।
मध्याह्ने १२:०० वादने मुख्यमन्त्री चन्दखुरी स्थिते कौशल्यामाता मन्दिरे गत्वा दर्शनं कृत्वा पूजाअर्चनां करिष्यति।
ततः परं १२:२० वादने सः कायस्थमङ्गलभवनं गत्वा विभिन्नविकासकार्याणां लोकार्पणं करिष्यति।
अनन्तरं मध्याह्ने १:०० वादने मुख्यमन्त्री मन्त्रालयं गमिष्यति, यत्र सः सायं ५:०० वादनपर्यन्तं विभागीयकार्येषु व्यस्तः भविष्यति।
हिन्दुस्थान समाचार