Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ३० मार्चमासः (हि.स.) - मध्यप्रदेशस्य मुख्यमंत्री डॉ.मोहनयादवः अद्य सोमवासरे “समर्थ एमएसएमई-विकसित-मध्यप्रदेशः” इति विषयस्य अधिष्ठाने मुख्यमन्त्रीनिवासे प्रातः १० वादने आयोज्ये कार्यक्रमे २५७ अधिकानि एमएसएमई-एककानि तेषां धनागारे १६९.५७ कोट्यधिकराशेः प्रोत्साहनराशिं सिंगल-क्लिक-माध्यमेन अन्तरयिष्यति।सहैव स्टार्टअप्स् अपि प्रायः २८ लक्षात् अधिकराशेः अनुदानस्य प्रथमपर्यायं लप्स्यन्ते।
जनसमपर्काधिकारी राजेशबैनः अवदत् यत् एमएसएमई-मन्त्री चैतन्यकुमार-काश्यपः अपि कार्यक्रमे विशेषतः उपस्थास्यन्ति। लघु-उद्योग-निगमस्य पक्षात् मन्त्री काश्यपः मुख्यमंत्री-डॉ.यादवाय ८ कोट्यधिकराशेः अंतरिमलाभांश-धनाहरणपत्रं दास्यति।
मध्यप्रदेश-स्टार्टअप-नीति तथा कार्यान्वयन-ईआईआर-योजनायाः अन्तर्गतं प्रदेशस्य ४३ जनपदानां २८६ स्टार्टअप्स् अपि ३.४३ कोट्यधिकराशेः स्वीकृतानि। मुख्यमंत्री डॉ.यादवः प्रथमपर्यायस्य २८.६ लक्षराशेः सिंगलक्लिकमाध्यमेन वितरणं करिष्यति।कार्यक्रमे आगरमालवा तथा बैतूल-जनपदयोः ३ उद्यमिभ्यः औद्योगिकभूमेः आवंटनादेशः, एक उद्यमिनं आशयपत्रं च वितरयिष्यते।
“उद्यमक्रान्ति योजना”-अन्तर्गतं ३ हितग्राहिभ्यः ५०.५ लक्षराशेः ऋणराशेः धनाहारणपत्रमाध्यमेन वितरयिष्यते। तथा अन्तर्जालमाध्यमेन उद्यमिभ्यः विभिन्न औद्योगिकक्षेत्रेषु भूमि आवंटन प्रमाणपत्रं आशयपत्रं च प्रदास्यते।
मुख्यमंत्री-डॉ.यादवेन सह अनेके उद्यमिनः संवादं कुर्वन्ति, यथा उद्यमिनः युवा अपि स्वानुभवान् परस्परं ज्ञापयिष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता