आधुनिकतकनीक्या सह संवेदनशीलता एव नूतनाय आरक्षीकरणस्य परिचयः : मुख्यमंत्री सायः
-नेताजी सुभाष चंद्र बोसः आरक्षिणाम् अकादम्यां 859 प्रशिक्षूणां दीक्षांतसमारोहः संपन्नः रायपुरम्, 30 मार्चमासः (हि.स.)। मुख्यमंत्री विष्णुदेवसायः अद्य चन्दखुरीस्थे नेताजीसुभाषचन्द्रबोस राज्यपुलिसअकादम्यां आयोजिते उपनिरीक्षकसंवर्गस्य दीक्षान्तसमा
मुख्यमंत्री साय राज्य पुलिस अकादमी में आयोजित उप निरीक्षक संवर्ग के दीक्षांत समारोह में


मुख्यमंत्री साय राज्य पुलिस अकादमी में आयोजित उप निरीक्षक संवर्ग के दीक्षांत समारोह में


मुख्यमंत्री साय राज्य पुलिस अकादमी में आयोजित उप निरीक्षक संवर्ग के दीक्षांत समारोह में


-नेताजी सुभाष चंद्र बोसः आरक्षिणाम् अकादम्यां 859 प्रशिक्षूणां दीक्षांतसमारोहः संपन्नः

रायपुरम्, 30 मार्चमासः (हि.स.)।

मुख्यमंत्री विष्णुदेवसायः अद्य चन्दखुरीस्थे नेताजीसुभाषचन्द्रबोस राज्यपुलिसअकादम्यां आयोजिते उपनिरीक्षकसंवर्गस्य दीक्षान्तसमारोहे (पासिङ्गआउटपदप्रयाणे) सहभागी अभवत्। तेन पदप्रयाणस्य निरीक्षणं कृत्वा प्रणमाञ्जलिः स्वीकृता।

अस्मिन् अवसरे सूबेदार, उपनिरीक्षक तथा प्लाटूनकमाण्डरसंवर्गस्य अधिकारिभ्यः सफलप्रशिक्षणसमापनस्य निमित्तं बधाईः शुभाशयाश्च प्रदत्ताः। अस्मिन् सत्रे कुलम् ८५९ प्रशिक्षवः प्रशिक्षणं सम्पन्नवन्तः, येषु ५४ सूबेदाराः, ५२८ उपनिरीक्षकाः (जीडी), ०२ उपनिरीक्षकाः (कम्प्यूटर), ०१ उपनिरीक्षकः (रेडियो), ०१ उपनिरीक्षकः (अङ्गुलीचिह्न), ६८ उपनिरीक्षकाः (एसबी) तथा २०५ प्लाटूनकमाण्डराः सन्ति।

मुख्यमन्त्रिणा स्वभाषणे उक्तं यत् एषः दिवसः सर्वेषां प्रशिक्षाणां जीवनस्य स्मरणीयः चरणः अस्ति, यतः ते राष्ट्रस्य छत्तीसगढमातर्याः च सेवायै संकल्पं कृत्वा अग्रे गच्छन्ति। तेन उक्तं यत् कठोरप्रशिक्षणानन्तरं प्राप्ता एषा उपलब्धिः न केवलं प्रशिक्षाणां, अपितु तेषां परिवाराणां सम्पूर्णराज्यस्य च गर्वस्य विषयः अस्ति।

तेन उल्लेखितं यत् गतवर्षे यदा एतेभ्यः नियुक्तिपत्राणि दत्तानि, तदा तेषु केवलं प्रतिभा आसीत्, किन्तु अद्य प्रशिक्षणानन्तरं तेषु अनुशासनम्, आत्मविश्वासः नेतृत्वक्षमता च समाविष्टाः सन्ति, ये तान् सफलाधिकारिणः करिष्यन्ति।

मुख्यमन्त्री आरक्षिसेवाम् अतीव प्रतिष्ठितां उत्तरदायित्वपूर्णां च उक्तवान्। सः अवदत् यत् कस्यापि प्रतिष्ठितसेवायाः आधारः सत्यनिष्ठा भवति। प्रशिक्षाणां प्रति प्रेरणां दत्त्वा सः उक्तवान् यत् पुलिसस्य मूलकर्तव्यं नागरिकानां रक्षणं भवति।

यदा कश्चित् नागरिकः असुरक्षितं अनुभूयते, तदा सः प्रथमं पुलिसम् एव गच्छति। अतः जनविश्वासस्य संरक्षणं पुलिसस्य परमं दायित्वम् अस्ति। वर्दी केवलं अधिकारस्य प्रतीकं न, किन्तु जनसुरक्षायाः संकल्पस्य प्रतिष्ठायाः च चिह्नम् अस्ति, यत् सर्वासु परिस्थितिषु रक्षितव्यम्।

मुख्यमन्त्री उक्तवान् यत् अद्य एषः निष्क्रमणसमारोहः केवलं अकादम्यात् निर्गमनं न, अपितु वास्तविककार्यक्षेत्रे प्रवेशस्य संकेतः अस्ति। तेन एतत् सनातनपरम्परायाः ‘निष्क्रमणसंस्कारेण सह सम्बद्धम् इति निर्दिष्टम्, यथा शिशुः प्रथमवारं गृहात् निर्गच्छति, तथैव एते प्रशिक्षाः सुरक्षितपर्यावरणात् निर्गत्य व्यापकदायित्वयुक्ते सेवाक्षेत्रे प्रविशन्ति।

तेन उक्तं यत् छत्तीसगढे पुलिसक्षेत्रे महत्त्वपूर्णाः सुधाराः कृताः। गतद्विवर्षेषु नियोजनप्रक्रिया पारदर्शिनी त्वरिता च कृता, आधुनिकप्रौद्योगिकी उपकरणानि च समाविष्टानि, साइबरअपराधानां निवारणार्थं विशेषएककानि स्थापितानि, प्रशिक्षणव्यवस्था च अधिकव्यावहारिकी आधुनिकरूपेण परिवर्तिता। भविष्यस्य पुलिसः केवलं विधिपालनसंस्था न भविष्यति, अपितु सक्रियसेवाप्रदाता भविष्यति।

मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः सुरक्षा, विकासः, विश्वासः इति त्रिषु स्तम्भेषु कार्यं करोति, येषां सुदृढीकरणे पुलिसस्य महत्त्वपूर्णा भूमिका अस्ति। पुलिसदलेन केवलं विधिव्यवस्थारक्षणे न सीमितव्यं, अपितु समाजेन सह सम्बद्धं भवित्वा जनविश्वासः अर्जनीयः। क्षेत्रं भयेन जितुं शक्यते, किन्तु हृदयम् केवलं विश्वासेन एव जितुं शक्यते।

तेन प्रधानमन्त्री नरेन्द्रमोदी तथा केन्द्रीयगृहमन्त्री अमितशाह इत्येतयोः विचाराः उद्धृताः, यत् देशे स्मार्ट्, प्रौद्योगिकीसञ्चालितं संवेदनशीलं च पुलिसतन्त्रं निर्मीयते। भविष्यस्य पुलिसः डिजिटलप्रणाल्या उन्नतसाधनैः च युक्ता भविष्यति, किन्तु जनविश्वासः केवलं व्यवहार, आचारः निष्ठा च इत्येभ्यः एव अर्ज्यते।

उपमुख्यमन्त्री तथा गृहमन्त्री विजयशर्मा अपि अस्मिन् अवसरि सर्वेषां उपनिरीक्षकाणां तेषां परिवाराणां च अभिनन्दनं कृतवान्। तेन उक्तं यत् एते प्रशिक्षाः छत्तीसगढपुलिसस्य शक्तिं सुदृढां करिष्यन्ति।

समारोहे विभिन्नविषयेषु उत्कृष्टप्रदर्शनं कृतवन्तः प्रशिक्षाः—सर्वेशकुमारः, किरणः, मीतालीबुग्गे, देवेन्द्रसिंहः, भरतकुमारः, जयप्रकाशराठौरः, सचिनयादवः, सुन्दरमनीषः, जितेन्द्रकुमारवैष्णवः, जितेन्द्रसिंहराजपूतः, राकेशवैष्णवः—एतेषां ट्रॉफी प्रशस्तिपत्रैः च सम्मानः कृतः।

अस्मिन् अवसरे अपरमुख्यसचिवः मनोजपिङ्गुआ, एडीजी दीपांशुकाबरा, अकादम्याः सञ्चालकः अजययादवः, वरिष्ठपुलिसअधीक्षकः अभिषेकपल्लवः अन्ये च अधिकारिणः बहवः प्रशिक्षपरिवारजनाश्च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार