Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, ३० मार्चमास: (हि.स.)। मुख्यमन्त्री भजनलाल-शर्मा-महोदयः जैन-धर्मस्य २४तम-तीर्थङ्करस्य भगवत: महावीर-स्वामिनः ३१ मार्च-दिने जयन्त्याः अवसरे प्रदेशवासिभ्यः हार्दिक-शुभाशंसाः प्रदत्तवान्।
शर्मा-महोदयः उक्तवान् यत् भगवत: महावीरस्य शिक्षाः अस्मान् मानवतायाः सेवां कर्तुं तथा सर्वेषां प्राणिनां प्रति करुणां धारयितुं प्रेरयन्ति। तेन उक्तं यत् भगवत: महावीरस्य सत्य-अहिंसा-अपरिग्रह-सिद्धान्ताः अद्यापि प्रासंगिकाः सन्ति।
मुख्यमन्त्री एतस्मिन् अवसरे प्रदेशवासिनः आह्वानं कृतवान् यत् ते भगवत: महावीरस्य आदर्शान् अनुसृत्य समृद्ध-समाजस्य निर्माणे स्वीयं योगदानं ददतु।
हिन्दुस्थान समाचार / अंशु गुप्ता