विधानसभा-निर्वाचनाय सम्बन्धित-क्षेत्रे प्रशासनिक-सज्जता तीव्रतया क्रियते
असनसोलनगरम्, ३० मार्चमासः (हि.स.)जनपदे विधानसभा-निर्वाचनाय प्रशासनिक-सज्जता तीव्रतया क्रियते। राज्ये द्वौ चरणौ आयोज्यते, यस्य प्रथमचरणस्य मतदानं २३ अप्रैलमासे २०२६ तिथौ भविष्यति। अस्य कृते निर्वाचन-आयोगः सोमवासरे आधिकारिक-अधिसूचना प्रकाशयिष्यति, ते
चुनाव आयोग (ईसीआई)


असनसोलनगरम्, ३० मार्चमासः (हि.स.)जनपदे विधानसभा-निर्वाचनाय प्रशासनिक-सज्जता तीव्रतया क्रियते। राज्ये द्वौ चरणौ आयोज्यते, यस्य प्रथमचरणस्य मतदानं २३ अप्रैलमासे २०२६ तिथौ भविष्यति। अस्य कृते निर्वाचन-आयोगः सोमवासरे आधिकारिक-अधिसूचना प्रकाशयिष्यति, तेन सह नामांकन-प्रक्रिया अपि आरभ्यते।जनपदस्य नव सभा-आसनानि प्रथमचरणे मतदानाय निर्धारितानि। नामांकन-पत्राणि पूरयितुं प्रशासनेन त्रीणि प्रमुखकेन्द्राणि संस्थापितानि -

1. आसनसोल-कल्याणपुरे स्थितः जनपदाधिकारिणः कार्यालयः 2. आसनसोल-न्यायालय-परिसरस्य एस.डी.ओ.एम.-कार्यालयः 3. दुर्गापुरे स्थितः एस.डी.ओ.एम.-कार्यालयः

जनपदस्य चत्वारि आसनानि - आसनसोल-दक्षिणम्, कुल्टी, बाराबनी, जामुड़िया – इत्येषां अभ्यर्थिनः स्वनामांकनं डी.एम.-कार्यालये दास्यन्ति। आसनसोल-उत्तरस्य आसनाय नामांकनम् आसनसोल- एस.डी.ओ.एम.-कार्यालये प्राप्यते। रानीगंज-पांडवेश्वर-दुर्गापुरपूर्व-दुर्गापुरपश्चिम-इत्येषां आसनानि दुर्गापुरे एस.डी.ओ.एम.-कार्यालये अभ्यर्थिनः नामांकनं दास्यन्ति।जनदपदप्रशासनस्य अनुसारं, एस.पोन्नमबलम् (जनपदमहाधिवक्ता जिलानिर्वाचनाधिकारी च) इत्यस्य अध्यक्षत्वे अभ्यर्थिनः सर्वाः नामांकन-सम्बद्धावश्यकाः प्रक्रियाः पूर्वमेव सूचिताः। अस्मिन् प्रदर्शितं यत् नामांकनकाले अभ्यर्थिभिः सह कति जनाः रिटर्निंग-ऑफिसर-कार्यालयम् आगन्तुं शक्नुवन्ति।

नामांकन-प्रक्रियां सुरक्षितं कर्तुं, त्रिषु केन्द्रेषु कठोर-सुरक्षा-व्यवस्था कृता, यथा कापि अव्यवस्था न स्यात्।

हिन्दुस्थान समाचार / अंशु गुप्ता