केरल-असम-पुडुचेरी-राज्येषु २.३७ लक्षाः दिव्याङ्गाः वरिष्ठ-मतदातारः च गृहेभ्यः एव मतदानं करिष्यन्ति
नवदिल्ली, ३० मार्चमास: (हि.स.)। निर्वाचन-आयोगः ८५ वर्षात् अधिक-वयस्कान् दिव्याङ्ग-मतदातारः च गृहेभ्यः मतपत्रैः मतदानस्य सौविध्यं प्रददाति। केरल-असम-पुडुचेरी-राज्येषु अद्यपर्यन्तं २.३७ लक्षाः पात्र-मतदातारः अस्याः सुविधायाः कृते आवेदनं कृतवन्तः। एते
चुनाव आयोग (फाइल फोटो)


नवदिल्ली, ३० मार्चमास: (हि.स.)। निर्वाचन-आयोगः ८५ वर्षात् अधिक-वयस्कान् दिव्याङ्ग-मतदातारः च गृहेभ्यः मतपत्रैः मतदानस्य सौविध्यं प्रददाति। केरल-असम-पुडुचेरी-राज्येषु अद्यपर्यन्तं २.३७ लक्षाः पात्र-मतदातारः अस्याः सुविधायाः कृते आवेदनं कृतवन्तः। एतेषु राज्येषु ९ अप्रैल-मासे मतदानं भविष्यति।

निर्वाचन-आयोगेन उक्तं यत् केरल-राज्ये १.४५ लक्षाः, असम-राज्ये १९ सहस्रं, पुडुचेरी-राज्ये द्विसहस्राधिकाः वरिष्ठ-नागरिकाः तथा दिव्याङ्ग-मतदातारः आवेदनं कृतवन्तः। आवेदनकर्तृषु १.६७ लक्षाः वरिष्ठ-नागरिकाः (५३.५ प्रतिशतं) तथा ७० सहस्राधिकाः दिव्याङ्ग-मतदातारः (१५.२२ प्रतिशतं) सन्ति।

एतेषां सर्वेषां कृते आयोगेन सूचना प्रदास्यते यत् कदा मतदान-कर्मिणः राजनैतिक-प्रतिनिधिभिः सह तेषां गृहाणि आगत्य मतदानं करिष्यन्ति। एषा प्रक्रिया ५ अप्रैल-पर्यन्तं सम्पन्ना भविष्यति। आयोगेन सम्पूर्ण-प्रक्रियायाः वीडियोग्राफी अपि क्रियते। अस्याः सुविधायाः कृते अधिसूचना-प्रकाशनात् अनन्तरं पञ्चदिनेषु एव स्व-सम्बद्ध-‘रिटर्निंग-अधिकारी’-समीपे आवेदनं कर्तव्यं भवति।

हिन्दुस्थान समाचार / अंशु गुप्ता