देशे धनागारा: कठोर-नैयायिक-नियामक-परिप्रेक्ष्यस्य अधीनं कार्यं कुर्वन्ति — सीतारमण-महोदया
नवदिल्ली, ३० मार्चमासः (हि.स.)। केन्द्रीय-वित्त-मन्त्री निर्मला-सीतारमण-महोदया लोकसभायां उक्तवती यत् देशे धनागारा: ग्राहकाणां दत्तांश-सुरक्षां गोपनीयतां च सुनिश्चेतुं कठोर-नैयायिक-नियामक-परिप्रेक्ष्यस्य अधीनं कार्यं कुर्वन्ति। सा अवदत् यत् ‘केवाईस
लोकसभा में प्रश्न काल के दौरान सवालों का जवाब दते हुए सीतारमण


नवदिल्ली, ३० मार्चमासः (हि.स.)। केन्द्रीय-वित्त-मन्त्री निर्मला-सीतारमण-महोदया लोकसभायां उक्तवती यत् देशे धनागारा: ग्राहकाणां दत्तांश-सुरक्षां गोपनीयतां च सुनिश्चेतुं कठोर-नैयायिक-नियामक-परिप्रेक्ष्यस्य अधीनं कार्यं कुर्वन्ति।

सा अवदत् यत् ‘केवाईसी’-व्यवस्थाया: तथा भारतीय-रिज़र्व-धनागारस्य निर्देशानुसारं ग्राहक-सूचनानां गोपनीयता अनिवार्या अस्ति। धनागारा: केवलम् आवश्यकतायाः आधारेण एव दत्तांशं सङ्गृह्णन्ति तथा आवश्यकतायामेव अधिकृत-संस्थाभिः सह सहभागं कुर्वन्ति।

तया अपि उक्तं यत् दत्तांश-सुरक्षायै पञ्च प्रमुखाः अधिनियमाः प्रवर्तन्ते, येषां पालनं सर्वेषां धनागाराणां कृते अनिवार्यम् अस्ति। यदि कस्यचित् ग्राहकस्य दत्तांश-अपव्ययः अथवा अनधिकृत-उपयोगः भवति, तर्हि सः भारतीय-रिज़र्व-धनागारं सम्बन्धित-प्राधिकरणं वा प्रति सूचनां कर्तुं शक्नोति।

सा आश्वासितवती यत् सर्वकारः ग्राहक-दत्तांश-सुरक्षायां पूर्णतया सजगा अस्ति तथा अस्यां दिशि निरन्तरं प्रयत्नाः क्रियन्ते।

हिन्दुस्थान समाचार / अंशु गुप्ता