Enter your Email Address to subscribe to our newsletters


अम्बिकापुर/रायपुर, ३० मार्चमास: (हि.स.)। खेलो-इण्डिया-ट्राइबल-गेम्स २०२६ अन्तर्गतं सरगुजा-जनपदे अम्बिकापुरमध्ये आयोजिता कुश्ती-स्पर्धा तृतीये दिने सोमवासरे अपि स्पर्धायाः रोमाञ्चः निरन्तरं प्रवृत्तः। क्रीडका: एकस्मात् उत्तमान् दांवपेंचान् प्रयुज्य विजयं प्राप्स्यति इति प्रयत्नं अकुर्वन्। अस्मिन् समये विजयान् प्राप्नुवन्तः प्रतिभागिनः पदकैः सम्मानिताः।
कठिनासु स्पर्धासु पदकं प्राप्नुवन्तः विजेतारः यथा— स्त्री-सिनियर ५३ कि.ग्रा. भारवर्गे झारखण्ड-राज्ये नेहा ओराँवः सुवर्ण-पदकं, असम-राज्ये प्रतिमा खाखलरी रजत-पदकं, असम-राज्ये मैनारी खाखलरी तथा मिज़ोरम-राज्ये लालवेनहीमी कांस्य-पदकं प्राप्तवत्य:।
स्त्री-सिनियर ७६ कि.ग्रा. भारवर्गे कर्नाटका मनीषा जुवाव सिद्दी सुवर्ण-पदकं, हिमाचलप्रदेशे मुस्कानः रजत-पदकं, मिज़ोरम-राज्ये लालहमंगहिसँगी कांस्य-पदकं अर्जितवत्य:।
पुरुष-श्रेण्यां अपि पदकवितरणं यथा—ग्रीको-रोमन-सिनियर ६० कि.ग्रा. कर्नाटका रोहन एम दोद्दामनी सुवर्ण-पदकं, राजस्थान दिनेश सोलंकी रजत-पदकं, मेघालय झु पा यू झु नोंगतडु कांस्य-पदकं प्राप्तवत्य:।
फ्री-स्टाइल ९७ कि.ग्रा. जम्मू-कश्मीरस्य हमामहुसैन: सुवर्णपदकं, हिमाचलप्रदेशत: मोहित कुमार: रजतम्, जम्मू-कश्मीर मोहम्मदवसीम-चौधरी कांस्य पदकं प्राप्तवन्त:।
ग्रीको-रोमन-सिनियर ८७ कि.ग्रा. हिमाचलप्रदेश पीयूषगुज्जर: सुवर्णपदकम्, जम्मू-कश्मीर रियाज़ हुसैन रजत, हिमाचलप्रदेश टेकचंद कांस्यपदकं अर्जितवन्तः।
फ्री-स्टाइल-सिनियर ६५ कि.ग्रा. बिहारत: मुलायमखरवार: सुवर्णम्, राजस्थानत: राकेशकुमार: मीना रजतम्, कर्नाटका कैम्पानगौड़ा वी केम्प्पणवार कांस्यपदकं प्राप्तवन्तः।
एवं मल्लयुद्ध-स्पर्धायाः तृतीये दिने विजयानां उत्साहः रोमाञ्चः च निरन्तरं दृष्टः।
हिन्दुस्थान समाचार / अंशु गुप्ता