Enter your Email Address to subscribe to our newsletters

भोपाल-नगरम्, ३० मार्चमास: (हि.स.)। राजस्थान-विधानसभाध्यक्षः वासुदेव-देवनानी उक्तवान् यत् लोकतन्त्रं भारतस्य स्वभावे एव निहितम् अस्ति, न तु पाश्चात्य-देशेभ्यः प्राप्तम्।
युवा-विधायक-सम्मेलने सः लोकतन्त्रस्य सुदृढीकरणाय संवादः, तार्किक-विरोधः तथा नागरिक-सहभागिता इत्येषां महत्त्वं प्रतिपादितवान्। अन्ये वक्तारः अपि २०४७ पर्यन्तं विकसित-भारत-निर्माणे यूनां भूमिकां प्रमुखाम् अवदन्।
सादुलशहर-विधानसभा-क्षेत्रस्य विधायकः गुरवीर-सिंहः अवदत् यत् आधारभूत-संरचनायाः सह उत्तम-निर्माणे अपि ध्यानं दातव्यम्। सः स्वक्षेत्रे ६० पंचायतासु ३५ पुस्तकालयान् स्थापितवान् तथा भविष्ये सर्वेषु ग्रामेषु पुस्तकालय-स्थापनस्य योजना अस्ति।
नेपानगर-विधायिका मञ्जू-दादू अवदत् यत् भारतं “स्वर्ण-पक्षी” इति केवलं धनसमृद्धेः कारणेन न उक्तम्, अपि तु सर्वेषु क्षेत्रेषु उत्कृष्टतायाः कारणेन। २०४७ पर्यन्तं पुनः तादृशं स्थानं प्राप्तुं सर्वैः प्रयासः करणीयः।
चाचौड़ा-क्षेत्रस्य विधायिका प्रियंका-मीणा अवदत् यत् विधायकः जनतायाः सर््कारस्य च मध्ये सेतु-रूपेण कार्यं करोति। नागरिक-सहभागिता वर्धनीया तथा ग्राम-स्तरे जनसंवादाः आवश्यकाः।सतना-विधायकः सिद्धार्थ-कुशवाहः अवदत् यत् २०४७ पर्यन्तं भारतस्य उन्नतिः सुनिश्चितुं दीर्घकालिक-योजना आवश्यकाऽस्ति।
अस्मात् पूर्वं सम्मेलनं मुख्यमन्त्री डॉ.मोहन-यादवः, मन्त्री कैलाश-विजयवर्गीयः तथा विपक्ष-नेता उमंग-सिंघारः अपि सम्बोधितवान्। आरम्भे पारम्परिक-लोक-नृत्येन स्वागतं कृतम् तथा अनन्तरं समूह-चित्रं अपि गृहीतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता