जयपुरे भगवत: महावीरस्य २६२५तमं जन्म-कल्याणक-महोत्सवः उत्साहेन पालितः, भव्य-शोभायात्रा अपि निर्गता
जयपुरनगरम्, ३० मार्चमास: (हि.स.)। ‘जीवतु जीवयतु च’ इति सन्देशं ददतः भगवत: महावीर-स्वामिनः २६२५तमं जन्म-कल्याणक-महोत्सवः श्रद्धया उत्साहेन च आचरितः। प्रातःकाले अभिषेक-पूजार्चनाभिः सह प्रभात-शोभायात्रा निर्गता, सायंकाले च महारार्तीकि-भजन-कार्यक्रमाः
महावीर जयंती का उल्लास- धूमधाम से निकली शोभायात्रा में गूंजा 'जय महावीर-जय महावीर


जयपुरनगरम्, ३० मार्चमास: (हि.स.)। ‘जीवतु जीवयतु च’ इति सन्देशं ददतः भगवत: महावीर-स्वामिनः २६२५तमं जन्म-कल्याणक-महोत्सवः श्रद्धया उत्साहेन च आचरितः। प्रातःकाले अभिषेक-पूजार्चनाभिः सह प्रभात-शोभायात्रा निर्गता, सायंकाले च महारार्तीकि-भजन-कार्यक्रमाः आयोजिताः।

मुख्य-कार्यक्रमः राजस्थान-जैन-सभाया: आयोजनतले रामलीला-प्रांगणे सम्पन्नः, यत्र आचार्य-वर्धमान-सागर-महाराजः तथा आचार्य-प्रज्ञा-सागर-महाराजः सान्निध्ये ध्वजारोहणं, दीप-प्रज्वलनं, कलशाभिषेकः च सम्पन्नः।

अस्मात् पूर्वं परकोटे-क्षेत्रे भव्य-शोभायात्रा निर्गता, या विभिन्न-मार्गैः गत्वा रामलीला-प्रांगणं प्राप्तवती। तस्यां वाद्यानि, भजन-मण्डल्यः, प्रदर्शिन्य: च आसन्, येषु अहिंसा, नारी-शिक्षा, विश्व-शान्ति: इत्यादयः सन्देशाः प्रदर्शिताः।

विशेषतः २४ तीर्थङ्कराणां २४ स्वर्णिम-रथाः आकर्षणस्य केन्द्रत्वेन आसन्। शोभायात्रायां गज-अश्व-उष्ट्रादयः, महिला-मण्डलानि, छात्राः तथा बहवः श्रद्धालवः अपि सहभागीन: अभवन्। सर्वत्र भक्त्या आस्थया च वातावरणं परिपूर्णम् आसीत्।

हिन्दुस्थान समाचार / अंशु गुप्ता