Enter your Email Address to subscribe to our newsletters

मलाइका-अरोड़ा पुनः स्वकीय-निजी-जीवन-सम्बद्ध-वार्ताभिः चर्चायां वर्तते। दीर्घकालात् तस्याः नाम हर्ष-मेहता इति हीराव्यापारिणा सह सम्बद्धं कथ्यते, यद्यपि अभिनेत्री एतासां वार्तानां आधिकारिकं अनुमोदनं न कदापि कृतवती।
इदानीं सामाजिक-माध्यमेषु एकं चलच्चित्रं प्रसृतम् अस्ति, यस्मिन् उभौ सह दृष्टौ स्तः। ज्ञायते यत् २९ मार्च-मासे उभौ पाली-जनपदस्य नरलाई-ग्रामस्थितं प्राचीन-जैन-मन्दिरं गतवन्तौ, यत्र तौ पूजार्चनां कृत्वा भगवतः आदिनाथस्य प्रार्थनां कृतवन्तौ। चलच्चित्रे मलाइका शुक्ल-वस्त्रेषु तथा हर्ष: नील-वस्त्रेषु दृश्यते।
वर्तते यत् हर्ष अधुना मारवाड़-प्रदेशे विश्रामं कुर्वन् कस्यचित् ऐतिहासिक-निवासे स्थितः अस्ति। उभयोः एषा सार्वजनिक-उपस्थितिः तयोः सम्बन्ध-सम्बद्धासु विषयेषु पुनः बलं दत्तवती।
हिन्दुस्थान समाचार / अंशु गुप्ता