Enter your Email Address to subscribe to our newsletters

कोलकाता, 30 मार्चमासः (हि.स.)।पश्चिम-बङ्गाल-राज्यस्य मुख्यमन्त्री ममता-बनर्जी सोमवासरे सामाजिक-माध्यमे ‘एक्स’ इति माध्यमे राजस्थान-दिवसस्य अवसरं प्रति राजस्थान-राज्यस्य जनान् शुभाशयाः प्रदत्तवती।
स्वसन्देशे सा उक्तवती यत् सा राजस्थानस्य सर्वेभ्यः भ्रातृभ्यः भगिनीभ्यश्च “शुभं राजस्थान-दिवसम्” इति शुभेच्छाः ददाति। सहैव सा बङ्गाल-राज्ये निवसन्तः राजस्थानी-मारवाडी-समुदायस्य जनान् विशेषतया अभिनन्दनं कृत्वा तेषां प्रति सम्मानं प्रकटितवती।
मुख्यमन्त्री स्वस्मिन् लेखे उक्तवती यत् विविधेषु क्षेत्रेषु राजस्थानी-समाजस्य योगदानं अत्यन्तं महत्त्वपूर्णम् अस्ति, येन पश्चिम-बङ्गालस्य विकासे प्रगतौ च महत्वपूर्णा भूमिका निर्वहिता अस्ति। सा अग्रे अपि उक्तवती यत् बङ्गाले निवसन्तः राजस्थानी-मारवाडी-समुदायाः राज्यस्य परिवारस्य अभिन्न-अङ्गानि सन्ति, तथा शासनं तेषां विकासाय समृद्धये सुख-शान्तये च प्रतिबद्धम् अस्ति।
अन्ते सा सर्वेषां कृते शान्तेः, सुखस्य सौहार्दपूर्ण-पर्यावरणस्य च प्रार्थनां कृत्वा शुभकामनाः प्रदत्तवती।
---------------
हिन्दुस्थान समाचार