पीसीएस 2024 इत्यस्य अमेठी जिल्लायाः 10 अभ्यर्थिनश्चयनिताः
अमेठी, 30 मार्चमासः (हि.स.)। उत्तरप्रदेशलोकसेवाआयोगस्य पीसीएस २०२४ इत्यस्य अन्तिमपरिणामे अमेठीजनपदेन पुनः प्रतिभायाः ध्वजः उच्चीकृतः तथा उल्लेखनीयसफलता प्राप्ता। प्राप्तसूचनानुसारं जनपदस्य दश अभ्यर्थिनः विविधेषु प्रशासनिकपदेषु चयनिताः, येन समग्रे
पीसीएस परीक्षा में 10वीं रैंक लाने वाले आयुष पांडे की फोटो


अमेठी, 30 मार्चमासः (हि.स.)।

उत्तरप्रदेशलोकसेवाआयोगस्य पीसीएस २०२४ इत्यस्य अन्तिमपरिणामे अमेठीजनपदेन पुनः प्रतिभायाः ध्वजः उच्चीकृतः तथा उल्लेखनीयसफलता प्राप्ता। प्राप्तसूचनानुसारं जनपदस्य दश अभ्यर्थिनः विविधेषु प्रशासनिकपदेषु चयनिताः, येन समग्रे क्षेत्रे हर्षलहरी प्रसृता। सफलतायाः ज्ञाते जनप्रतिनिधयः, गणमान्यजनाः, जनपदस्य जिलाधिकारी पुलिसअधीक्षकौ च सर्वान् सफलप्रतिभागिनः प्रति शुभाशिषः प्रेषितवन्तः।

संग्रामपुरखण्डस्य डेहराग्रामनिवासी आयुषपाण्डेय प्रदेशे दशमस्थानं प्राप्त्वा एसडीएमपदे चयनितः सन् जनपदस्य कीर्तिं वर्धितवान्। तस्य पिता बीडीओपदे नियुक्तः आसीत्, किन्तु पूर्वमेव तस्य निधनम् अभवत्। तस्य माता शिक्षिका अस्ति। तस्याः निर्देशनपरिपालनयोः अन्तर्गतं आयुषपाण्डेय कठोरपरिश्रमेण अध्ययनं कृत्वा पीसीएस परीक्षायां दशमस्थानं प्राप्तवान्।

अस्मिन्नेव क्षेत्रे अनुराधासिंहः कमर्शियलटैक्सविभागे चयनिता। जगदीशपुरनिवासिनी मानसीसिंह डिप्टीजेलरपदे चयनिता, मुसाफिरखानातहसीलस्य सुधांशुकौशल ट्रेजरीअधिकारी अभवत्। पालपुरजगदीशपुरनिवासी अर्पितसिंह डिप्टीकमिश्नरकॉमर्शियलपदे चयनितः। गौरीगञ्जस्य पूरबग्रामनिवासी रजनीशविक्रमसिंहः डिप्टीजेलरपदं प्राप्तवान्। शुकुलबाजारनिवासी आशीषशुक्लः कमर्शियलटैक्सअधिकारी अभवत्। गौरीगञ्जतहसीलस्य पण्डरीग्रामनिवासिनी स्नेहा नायबतहसीलदारपदे चयनिता।

एवमेव भेंटुआखण्डायाः पूरेराममिश्रसरूवांवाग्रामनिवासी विनयकुमारमिश्र एकसप्ततितमस्थानं प्राप्त्वा नायबतहसीलदारपदे सफलतां प्राप्तवान्। अस्य उपलब्ध्या परिवारक्षेत्रयोः हर्षोल्लासः अभवत्। तस्य पिता दुर्गाप्रसादमिश्र प्राथमिकविद्यालये शिक्षकः सन्ति।

एते सर्वे प्रतिभागिनः स्वसफलतायाः श्रेयः मातापितृभ्यः, गुरुभ्यः तथा कठिनपरिश्रमाय अर्पितवन्तः। ग्रामीणजनाः क्षेत्रीयजनाश्च मिठाईवितरणेन आनन्दं व्यक्तवन्तः तथा एतत् युवजनानां कृते प्रेरणादायकम् इति उक्तवन्तः।

जनपदस्य सर्वेभ्यः सफलाभ्यर्थिभ्यः जनप्रतिनिधयः गणमान्यजनाश्च शुभाशिषः दत्वा तेषां उज्ज्वलभविष्यस्य कामनां कृतवन्तः। जनपदस्य जिलाधिकारी संजयचौहान तथा पुलिसअधीक्षकः सरवणनटी अपि सर्वान् सफलान् अभिनन्द्य तेषां उज्ज्वलभविष्यस्य कामनां कृतवन्तौ। तौ उक्तवन्तौ यत् एषा सफलता अभ्यर्थिनां कठोरपरिश्रमस्य लग्नस्य अनुशासनस्य च परिणामः अस्ति।

---------------

हिन्दुस्थान समाचार