प्रधानमंत्रिणो गुजरातभ्रमणं श्वः, सेमीकंडक्टर प्लांट समेत्य 20 सहस्रकोटिरुप्यकमितानां परियोजनानां करिष्यति लोकार्पणम्
नव दिल्ली, 30 मार्च मासः(हि.स.)। नरेन्द्र मोदी प्रधानमन्त्री ३१ मार्च २०२६ दिनाङ्के स्वगृहराज्ये गुर्जरे एकदिवसीयभ्रमणे भविष्यति। अस्मिन् अवसरे सः आध्यात्मिकऔद्योगिकपूर्वाधारसम्बद्धानां बहूनां महत्त्वपूर्णपरियोजनानां उद्घाटनं शिलान्यासं च करिष्यति।
प्रधानमंत्री नरेन्द्र मोदी


नव दिल्ली, 30 मार्च मासः(हि.स.)। नरेन्द्र मोदी प्रधानमन्त्री ३१ मार्च २०२६ दिनाङ्के स्वगृहराज्ये गुर्जरे एकदिवसीयभ्रमणे भविष्यति। अस्मिन् अवसरे सः आध्यात्मिकऔद्योगिकपूर्वाधारसम्बद्धानां बहूनां महत्त्वपूर्णपरियोजनानां उद्घाटनं शिलान्यासं च करिष्यति।

प्रधानमन्त्रिकार्यालयस्य अनुसारम् अस्मिन् भ्रमणे प्रधानमन्त्रिणा एकस्य सेमिकण्डक्टरसंयन्त्रस्य उद्घाटनं क्रियते तथा २० सहस्रकोटिरूप्यकात् अधिकमूल्यानां विविधविकासपरियोजनानां लोकार्पणं भविष्यति।

प्रधानमन्त्रिणः यात्रायाः आरम्भः प्रातः १० वादने गांधीनगरे स्थिते कोबातीर्थे भविष्यति, यत्र सः महावीर जयंती अवसरि ‘सम्राटसंप्रति संग्रहालय’ उद्घाटयिष्यति। एतत् संग्रहालयं जैनधर्मस्य महानसंरक्षकाय सम्राटसंप्रतये समर्पितम् अस्ति। सप्तसु दीर्घासु विस्तीर्णे अस्मिन् संग्रहालये द्विसहस्राधिकाः दुर्लभकलाकृतयः, प्राचीनपाण्डुलिपयः तथा शिलाधातुमूर्तयः प्रदर्शिताः सन्ति। आधुनिकडिजिटलप्रौद्योगिक्याः माध्यमेन एतत् जैनधर्मस्य विकासयात्रां दर्शयिष्यति।

अनन्तरं प्रधानमन्त्रि मध्यान्हे १२ ४५ वादने अहमदाबादस्य सानन्दजीआइडीसीप्रदेशं गमिष्यति, यत्र सः केयन्ससेमिकॉनसंयन्त्रस्य उद्घाटनं करिष्यति।माइक्रोनतकनीकेः अनन्तरं एषा भारतदेशे वाणिज्यिकउत्पादनं आरभमाणा द्वितीया सेमिकण्डक्टरएकाई भविष्यति। अत्र उन्नतबुद्धिमानशक्तिमॉड्यूल् (आईपीएम) उत्पाद्यन्ते, येषां उपयोगः वाहनऔद्योगिकक्षेत्रयोः भवति। अस्य उत्पादनक्षमता प्रतिदिनं ६ ३३ मिलियनपरिमाणपर्यन्तं भविष्यति।

प्रधानमन्त्रिणा २० सहस्रकोटिरूप्यकात् अधिकव्यययुक्तानां बहूनां परियोजनानां आधारशिला अपि स्थाप्यते। एतेषु विद्युत्, रेलमार्ग, मार्गपरिवहन, स्वास्थ्य, नागरविकास, जनजातीयग्रामीणविकाससम्बद्धाः योजनाः अन्तर्भवन्ति। अहमदाबादधोलेरावेगमार्गस्य उद्घाटनं अपि क्रियते, तथा गांधीनगरकोबाविमानस्थानकम् मार्गे नवीनउड्डयनपुलानां शिलान्यासः भविष्यति। सह एव सौरऊर्जापारेषणप्रणाल्याः (खावड़ापूलिङ्गस्टेशन) लोकार्पणं क्रियते, यत् नवीकरणीयऊर्जाक्षेत्रे महत्त्वपूर्णं पदम् अस्ति।

रेलमार्गक्षेत्रे कनलसजामनगर तथा राजकोटकनलस रेलमार्गयोः द्विगुणीकरणकार्यं राष्ट्राय समर्प्यते। अपि च खेदब्रह्माहिम्मतनगरअसरवा नवीनरेलसेवा आरभ्यते। बनासकांठा तथा पाटनजनपदयोः पाइपलाइनपरियोजनानां उद्घाटनेन लक्षशः जनानां शुद्धपेयजलस्य उपलब्धिः भविष्यति।

अतिरिक्तं ‘रानीकीवाव’ तथा शर्मिष्ठाझील इत्यत्र प्रकाशध्वनिप्रदर्शनस्य उद्घाटनं क्रियते। सिविलचिकित्सालयेषु रोगिणां परिजनानां कृते ‘रैनबसेर’ इति निवासव्यवस्थायाः लोकार्पणं अपि भविष्यति।

प्रधानमन्त्रि अहमदाबादनगरस्य वेजलपुरप्रदेशे छात्रावासस्य उद्घाटनं करिष्यति, यत् आदिवासीविद्यार्थिनां उच्चशिक्षायै उत्तमसुविधाः प्रदास्यति। प्रधानमन्त्रिणः एषः दौरा गुजरातस्य औद्योगिकविकासं सामाजिकसांस्कृतिकाधारं च अधिकं सुदृढं करिष्यति।---------------------

हिन्दुस्थान समाचार