प्रधानमंत्रिणा श्यामजी कृष्ण वर्मणे कृतं नमनम्
नव दिल्ली, 30 मार्चमासः (हि.स.) प्रधानमन्त्रिणा नरेन्द्रमोदिना सोमवासरे महान् स्वातन्त्र्यसेनानी श्यामजी कृष्ण वर्मा इत्यस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिः अर्पिता। तेन उक्तं यत् श्यामजी कृष्ण वर्मा स्वस्य क्रान्तिकारी-विचारैः स्वातन्त्र्य-आन्दोलन
प्रधानमंत्री नरेन्द्र मोदी


नव दिल्ली, 30 मार्चमासः (हि.स.)

प्रधानमन्त्रिणा नरेन्द्रमोदिना सोमवासरे महान् स्वातन्त्र्यसेनानी श्यामजी कृष्ण वर्मा इत्यस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिः अर्पिता। तेन उक्तं यत् श्यामजी कृष्ण वर्मा स्वस्य क्रान्तिकारी-विचारैः स्वातन्त्र्य-आन्दोलने नूतनचेतनां संचारितवान्, तस्य जीवनं च देशस्य प्रत्येकां पीढीं राष्ट्रसेवाय प्रेरयति भविष्यति च।

प्रधानमन्त्री ‘एक्स’ इति माध्यमे लिखितवान्— “भारतमातुः अस्य वीरसपूतस्य पुण्यतिथौ सादरं नमामि। तस्य विचाराः आदर्शाश्च स्वातन्त्र्यसंग्रामस्य इतिहासे सदा अमिटाः स्थास्यन्ति।”

अन्यस्मिन् सन्देशे प्रधानमन्त्री श्यामजी कृष्ण वर्मणः जीवनं साहसस्य दृढसंकल्पस्य च अद्भुत-प्रेरणास्रोतः इति वर्णितवान्। तेन उक्तं यत् तस्य जीवनं देशवासिषु राष्ट्रे प्रति स्वकर्तव्य-पालनस्य भावनां अपि जागरूकां करोति।

प्रधानमन्त्री एकं संस्कृत-सुभाषितम् अपि सहकृतवान्—

विचित्रचरितोल्लेखचमत्कारितचेतनम्।

प्राप्यते किं यशः शुभ्रमनङ्गीकृत्य साहसम्॥

अस्य अर्थः— यः मनुष्यः साहसं न करोति, जोखिमं न स्वीकरोति, असाधारणकार्याणि कर्तुं प्रयत्नं न करोति, सः कदापि तादृशं यशः न प्राप्नोति यत् जनानां चेतांसि प्रभावितुं शक्नोति।

---------------

हिन्दुस्थान समाचार