केरलहिमाचलप्रदेशयोः राज्यपालो राष्ट्रपतिना सह मिलितवान्
नवदिल्ली, 30 मार्चमासः (हि.स.)।केरलराज्यस्य राज्यपालः राजेन्द्रविश्वनाथअर्लेकरः तथा हिमाचलप्रदेशस्य राज्यपालः कवीन्द्रगुप्तः सोमवासरे राष्ट्रपतिभवने राष्ट्रपतिना द्रौपदीमुर्मुणा सह पृथक्पृथक् मिलितवन्तौ। अस्मिन् अवसरे राष्ट्रपतिः उभाभ्यां राज्यपाला
राष्ट्रपति द्रौपदी मुर्मु के साथ केरल के राज्यपाल राजेंद्र विश्वनाथ अर्लेकर।


राष्ट्रपति द्रौपदी मुर्मु के साथ हिमाचल प्रदेश के राज्यपाल कवींद्र गुप्ता।


नवदिल्ली, 30 मार्चमासः (हि.स.)।केरलराज्यस्य राज्यपालः राजेन्द्रविश्वनाथअर्लेकरः तथा हिमाचलप्रदेशस्य राज्यपालः कवीन्द्रगुप्तः सोमवासरे राष्ट्रपतिभवने राष्ट्रपतिना द्रौपदीमुर्मुणा सह पृथक्पृथक् मिलितवन्तौ। अस्मिन् अवसरे राष्ट्रपतिः उभाभ्यां राज्यपालाभ्यां सह राज्ययोः स्थितेः तथा विकाससम्बद्धेषु विषयेषु विस्तरेण चर्चा कृतवती।

राष्ट्रपतिः एतयोः मिलनयोः विषये स्वस्य आधिकारिके एक्स माध्यमे सूचना प्रकाशितवती। सा पृथक्पृथक् लेखयोः लिखितवती यत् केरलस्य राज्यपालः राजेन्द्रविश्वनाथअर्लेकरः तथा हिमाचलप्रदेशस्य राज्यपालः कवीन्द्रगुप्तः राष्ट्रपतिभवने तया सह मिलितवन्तौ।

राष्ट्रपतिना अस्मिन् मिलने राज्यविकासकार्याणि, तत्रस्थिताः जनसमस्याः तथा राज्यस्य समग्रप्रगतिः इत्यादिषु विषयेषु चर्चा कृता।

अतिरिक्ततया उपराष्ट्रपतिना सीपीराधाकृष्णनेन सह अपि केरलतामिळनाडुराज्ययोः राज्यपालः राजेन्द्रविश्वनाथअर्लेकरः संसदभवनपरिसरे मिलितवान्। उपराष्ट्रपतिना अपि स्वस्य एक्स माध्यमे अस्य विषये सूचना प्रकाशितवती यत् तेन सह मिलित्वा विविधेषु विषयेषु चर्चा कृता।

---------------

हिन्दुस्थान समाचार