धर्मस्य आधारेण ओबीसी आरक्षणस्य कथिते दुरुपयोगे राज्यसभातः विपक्षस्य बहिर्गमनम्
नवदिल्ली, 30 मार्चमासः (हि.स.)। विपक्षीदलैः धर्माधारितेन पृष्ठवर्गस्य आरक्षणस्य दुरुपयोगविषये सोमवासरे राज्यसभायां उद्भूते प्रश्ने कोलाहलः कृतः तथा सदनात् बहिर्गमनम् अपि कृतम्। सदने शून्यकाले भारतीयजनतादलसदस्यः के. लक्ष्मणः धर्माधारितस्य ओबीसी
राज्य सभा में सदन के नेता जे पी नड्डा


राज्य सभा सदस्य के लक्ष्मण


नवदिल्ली, 30 मार्चमासः (हि.स.)।

विपक्षीदलैः धर्माधारितेन पृष्ठवर्गस्य आरक्षणस्य दुरुपयोगविषये सोमवासरे राज्यसभायां उद्भूते प्रश्ने कोलाहलः कृतः तथा सदनात् बहिर्गमनम् अपि कृतम्।

सदने शून्यकाले भारतीयजनतादलसदस्यः के. लक्ष्मणः धर्माधारितस्य ओबीसी आरक्षणस्य कथितदुरुपयोगस्य विषयम् उद्घाटितवान्। तेन केषाञ्चित् राज्येषु मुस्लिमसमुदायस्य प्रदीयमानस्य आरक्षणस्य समीक्षायाः अपेक्षा कृता। सः अवदत् यत् ओबीसी आरक्षणं धर्माधारेण न भवेत्, किन्तु सामाजिकशैक्षणिकपिछडत्वस्य आधारेण भवेत्।

के. लक्ष्मणेन आरोपः कृतः यत् तेलंगाना, पश्चिमबंगाल, तमिळनाडु तथा केरलादिषु राज्येषु धर्माधारेण आरक्षणस्य दुरुपयोगः क्रियते, यत् असंवैधानिकम् अस्ति। अस्मिन् विषये सदने तीव्रः कोलाहलः अभवत्।

उपनायकप्रतिपक्षस्य प्रमोदतिवारी उक्तवान् यत् एषः विषयः विभाजनकारी अस्ति तथा पिछडवर्गस्य आरक्षणं दुर्बलयितुं प्रयत्नः क्रियते। विपक्षी दलैः तीव्रा आपत्तिः प्रदर्शिता तथा बहिर्गमनम् अपि कृतम्, येन कार्यवाही बाधिता अभवत्।

सदननेता जे. पी. नड्डा विपक्षीयानां बहिर्गमनस्य आलोचनां कृत्वा उक्तवान् यत् विपक्षः चर्चात् पलायते तथा कांग्रेसपक्षः तुष्टीकरणराजनीतिं करोति। सः अवदत् यत् दुःखेन वक्तव्यं यत् कांग्रेसनेतृत्वेन इंडी गठबन्धनस्य न लोकतन्त्रे रुचिः अस्ति, न संसदीयमर्यादायाः पालनम्, न कस्यचित् विषयस्य चर्चायाम्, न च संविधानपालने। तेषां संविधाने श्रद्धा अपि नास्ति।

ते मुस्लिमसमाजं केवलं मतदातृसमूहरूपेण पश्यन्ति। तेषां कृते केवलं तुष्टीकरणराजनीतिः एव क्रियते। के. लक्ष्मणेन उक्तः विषयः ओबीसी आरक्षणेन सह संविधाने सम्बद्धः अस्ति, किन्तु कांग्रेसजनाः राजनीतिं कृत्वा समाजस्य विभाजनं कर्तुम् इच्छन्ति।

सर्वकारः कस्यापि विषयस्य चर्चायै सज्जा अस्ति। सम्पूर्णः विपक्षः स्वस्य राजनीतेः कृते समाजं विभजितुं तथा वातावरणं दूषयितुं प्रयत्नं करोति।

तस्य तुष्टीकरणराजनीतेः निन्दां कृत्वा सः अवदत् यत् कांग्रेसं बालिशव्यवहारैः बन्धकं कर्तुं न दातव्यम्।

------------

हिन्दुस्थान समाचार