Enter your Email Address to subscribe to our newsletters

कोलकाता, 30 मार्चमासः (हि.स.)। चलच्चित्रदूरदर्शनजगतः प्रसिद्धस्य अभिनेतुः राहुलअरुणोदयबनर्जेः दुर्घटनायां मृत्युनिमित्तं बाङ्ग्लाभिनयजगति व्याप्यमाने शोकवेगे सति राज्यस्य मुख्यसचिवः दुष्मन्तनारियावाला सोमवासरप्रातः घटनास्थलं प्राप्तवान्।
राहुलबनर्जेः रविवासरसायं दीघासमुद्रे निमज्जनात् मृत्यु अभवत्। पूर्वमेव सूचितं यत् सोमवासरे कांथीमहक्माचिकित्सालये तस्य मृतशरीरस्य मरणोत्तरपरीक्षणं क्रियिष्यते इति। कलाकारमञ्चस्य सूत्रानुसारं प्रातः अष्टवादनात् परीक्षणं आरभितुं निश्चितम् आसीत्, किन्तु नववादनानन्तरमपि प्रक्रिया आरब्धा न आसीत्।
अभिनेतुः पार्थिवशरीरं दीघातः कोलकातानगरस्य विजयगढ़स्थितं तस्य गृहम् आनयितुं दायित्वं मुख्यमन्त्रिणा ममताबनर्जी स्वीकृतम्। घटनास्थले राज्यस्य मुख्यसचिवः दुष्मन्तनारियावाला अपि उपस्थितः अस्ति।
मुख्यमन्त्रिणा अभिनेतुः निधनस्य विषये गहनः शोकः व्यक्तः। सा रविवासरे एक्समाध्यमे लिखितवती यत् अस्याः घटनायाः कारणेन सा अत्यन्तं दुःखिता अस्ति तथा एतादृशं घटितम् इति विश्वासः कर्तुं कठिनम्। तया राहुलः स्वप्रियः अभिनेता उत्तमः मनुष्यः च इति उक्तम्।
मुख्यमन्त्रिणा स्वसन्देशे अभिनेतुः परिवारजनानां असंख्यप्रशंसकानां प्रति अपि संवेदना व्यक्ता। तया उक्तं यत् बाङ्ग्लाचलच्चित्रदूरदर्शनजगति राहुलस्य योगदानं सदा स्मरणीयं भविष्यति तथा तस्य आकस्मिकनिधनम् अभिनयजगतः कृते अपूरणीयहानिः अस्ति।
राहुलस्य निधनस्य वार्ता श्रुत्वा तस्य पत्नी अभिनेत्री प्रियंकासरकारः स्वस्य श्वश्रुगृहम् आगता। किञ्चित्कालं तत्र स्थित्वा सा स्वपुत्रस्य सहजस्य समीपं गता, अनन्तरं रात्रौ पुनः परिवारस्य समीपं प्रत्यागता।
विजयगढ़प्रदेशे सोमवासरदिवसे अपराह्णकालस्य प्रतीक्षा क्रियते। सूचनानुसारं अभिनेतुः पार्थिवशरीरं अपराह्णपर्यन्तं तस्य गृहम् आनयितुं शक्यते, यत्र अन्तिमदर्शनार्थं जनसमूहस्य आगमनस्य सम्भावना अस्ति।
हिन्दुस्थान समाचार