न्यू मैंगलोरपटलस्य बर्थ-9 संख्यकस्य पुनर्विकासः अनुमतः
नव दिल्ली, 30 मार्चमासः (हि.स.)।केंद्रसर्वकारेण न्यूमैंगलोरपोर्टअथॉरिटीस्य बर्थसंख्या ९ पुनर्विकासप्रस्तावः अनुमोदितः। अस्य परियोजनायाः अन्तर्गतं द्रवरूपबल्ककार्गोव्यवस्थापनक्षमतायाः वृद्धिः तथा समुद्रीयदक्षतायाः सुदृढीकरणं लक्ष्यीकृतम् अस्ति। कें
न्यू मैंगलोर पोर्ट की फाइल फोटो


नव दिल्ली, 30 मार्चमासः (हि.स.)।केंद्रसर्वकारेण न्यूमैंगलोरपोर्टअथॉरिटीस्य बर्थसंख्या ९ पुनर्विकासप्रस्तावः अनुमोदितः। अस्य परियोजनायाः अन्तर्गतं द्रवरूपबल्ककार्गोव्यवस्थापनक्षमतायाः वृद्धिः तथा समुद्रीयदक्षतायाः सुदृढीकरणं लक्ष्यीकृतम् अस्ति।

केंद्रीयबंदरगाहपोतपरिवहनजलमार्गमन्त्रालयस्य अनुसारम् एषा परियोजना सार्वजनिकनिजीभागीदारीमॉडले डीबीएफओटी आधाररूपेण कार्यान्विता भविष्यति। अस्य अन्तर्गतं पुरातनसंरचनाया अपसारणं कृत्वा बर्थसंख्या ९ आधुनिकरीत्या पुनर्विकासः क्रियते, यत्र कच्चतेलम्, पेट्रोलियमउत्पादाः तथा एलपीजी इत्यादीनां द्रवकार्गोव्यवस्थापनं भविष्यति।

परियोजनायाः अन्तर्गतं बर्थ इत्यस्य गहरता वर्तमान १०.५ मीटरतः वर्धयित्वा १४ मीटरपर्यन्तं क्रियते, यत् भविष्ये १९.८ मीटरपर्यन्तं विस्तारयितुं अपि सुसज्जं भविष्यति। अनेन २ लक्ष डीडब्ल्यूटीपर्यन्तं विशालयानानि, यत्र वीएलजीसी अपि सम्मिलितानि, स्वीकर्तुं शक्यन्ते।

केंद्रीयबंदरगाहपोतपरिवहनजलमार्गमन्त्री सर्बानन्द सोनोवाल अवदत् यत् एषा परियोजना नरेन्द्र मोदिनो नेतृत्वे देशस्य समुद्रीयपूर्वाधारस्य आधुनिकीकरणस्य दिशि महत्त्वपूर्णं पदम् अस्ति। अनेन कार्गोव्यवस्थापनक्षमता १०.९० मिलियनटनप्रतिवर्षं पर्यन्तं वर्धिष्यते तथा भारतं वैश्विकसमुद्रीयक्षेत्रे स्वस्थानं अधिकं सुदृढं करिष्यति।

तेन उक्तं यत् लगभग ४३८.२९ कोटिरूप्यकव्ययेन एषा परियोजना प्रतिस्पर्धी निविदाप्रक्रियया निजीभागीदारेण विकसिताऽभविष्यति। परियोजनायाः निर्माणकालः २ वर्षाणि तथा कुलकंसेशनकालः ३० वर्षाणि निर्धारितः अस्ति।

अस्याः परियोजनायाः अन्तर्गतं आधुनिकयन्त्राणि तथा प्रौद्योगिकी उपयुज्यन्ते, यत्र उच्चक्षमतायुक्ताः मरीनअनलोडिंगआर्म्स तथा स्वचालितमूरिंगप्रणाल्यः अपि सन्ति। तस्मात् अतिरिक्तं सुरक्षा सुनिश्चितीकरणार्थं आधुनिकअग्निशमनप्रणाली तथा अन्ये उन्नत नियंत्रणतन्त्राणि अपि स्थाप्यन्ते।

---------------

हिन्दुस्थान समाचार