मध्यप्रदेश-राज्ये १ अप्रैल-मासात् “स्कूल-चले-हम” इति अभियानम् आरभ्यते
भोपाल-नगरम्, ३० मार्चमासः (हि.स.)। मध्यप्रदेश-राज्ये २०२६–२७ शैक्षणिक-सत्रस्य आरम्भः १ अप्रैल-मासात् भविष्यति। अस्मिनवसरे “स्कूल-चले-हम” इति अभियानम् १ तः ४ अप्रैल-पर्यन्तं आयोजितं भविष्यति। अस्मिन् काले शालासु नामाङ्कन-वृद्धये विशेष-प्रयत्नाः क्रि
प्रतीकात्मक फोटो


भोपाल-नगरम्, ३० मार्चमासः (हि.स.)। मध्यप्रदेश-राज्ये २०२६–२७ शैक्षणिक-सत्रस्य आरम्भः १ अप्रैल-मासात् भविष्यति। अस्मिनवसरे “स्कूल-चले-हम” इति अभियानम् १ तः ४ अप्रैल-पर्यन्तं आयोजितं भविष्यति। अस्मिन् काले शालासु नामाङ्कन-वृद्धये विशेष-प्रयत्नाः क्रियन्ते।

अभियानस्य अन्तर्गतं राज्य-स्तरीय-कार्यक्रमः मुख्यमन्त्रिणः डॉ.मोहन-यादवस्य उपस्थितौ भविष्यति। छात्रेभ्यः निःशुल्क-पाठ्यपुस्तक-वितरणम्, बालसभा, “भविष्य-सम्भाषण”-कार्यक्रमः, सांस्कृतिक-क्रियाकलापाः, क्रीडा-प्रतियोगिताः च आयोजिताः भविष्यन्ति।

अभियानस्य उद्देश्यं छात्राणां नामाङ्कनं वर्धयितुं, अभिभावकान् शालाभिः सह संयोजयितुं, तथा विद्यार्थिनां शिक्षायां रुचिं वर्धयितुं च अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता