Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ३० मार्चमासः (हि.स.)। मध्यप्रदेशविधानसभायां अद्य सोमवासरे राष्ट्रकुलसंसदीयसङ्घस्य (भारतदेश-क्षेत्रम् 6) त्रिषु राज्येषु युवविधायकानां द्विदिवसीय-सम्मेलनस्य आयोजनं क्रियते। अस्मिन् सम्मेलने मध्यप्रदेश- छत्तीसगढ-राजस्थानराज्यानां ६३ विधायकाः सहभागम करिष्यन्ति। सम्मेलनस्यारम्भः प्रातः १० वादने भविष्यति। प्रारम्भे ७० अधिकविधायकानां सहभागस्य सम्भावना व्यक्ता आसीत्, किन्तु अन्ते ६३ विधायकाः स्वीकृतिं प्रदत्तवन्तः।
सम्मेलनोद्घाटनं माननीय मुख्यमंत्री डॉ.मोहनयादवः करिष्यति। अस्मिन् अवसरे विधानसभााध्यक्षः नरेंद्रसिंहतोमरः, नेता-प्रतिपक्षः उमंगसिंघारः संसदीयकार्यमन्त्री कैलाशविजयवर्गीयः उपस्थितौ भविष्यतः। सम्मेलने भागं गृह्णन्तः ४५ वर्षात् अल्पवयसीयानां विधायकानां मध्ये मध्यप्रदेशात् ३७, राजस्थानात् १३, छत्तीसगढात् १३ विधायकाः सन्ति। द्विदिवसीये अस्मिन सम्मेलने पञ्च सत्राणि आयोजितानि भविष्यन्ति।
प्रथमदिने सोमवासरे त्रीणि सत्राणि भविष्यन्ति। यत्र लोकतन्त्रे नागरिकसहभागितां दृढतां कर्तुं ‘विकसितभारत २०४७’ लक्ष्यार्थं युवविधायकानां भूमिकायाः विषयेषु चर्चायाः विषयाः भविष्यन्ति।
विधानसभा-अध्यक्षः तोमरः सूचनां दत्वा उक्तवान् - अस्य आयोजनस्य मुख्योद्देश्यं लोकतन्त्रस्य दृढीकरणं च युवा जनप्रतिनिधिनां भूमिकायाः मन्थनं च। सम्मेलने युवजनानां लोकतन्त्रे सहभागिता च उत्तरदायित्वेषु विस्तृतं मन्थनं भविष्यति। मध्यप्रदेशे एषः युवा-विधायकः सम्मेलनेऽस्ति, इति गर्वविषयः अस्ति।
विधानसभायाः प्रमुखसचिवः अरविन्दशर्मा उक्तवान् - कार्यक्रमे मुख्यमंत्री डॉ.मोहनयादवः, विधानसभााध्यक्षः नरेंद्रसिंहतोमरः, राजस्थानविधानसभायाः अध्यक्षः वासुदेवदेवनानी च उपस्थिताः भविष्यन्ति। प्रथमदिने ‘लोकतन्त्रे नागरिकसहभागितायाः दृढीकरणाय युवविधायकानां भूमिका’ विषयः मन्थनाय भविष्यति। प्रथमदिने माखनलालचतुर्वेदी राष्ट्रीयपत्रकारिताविश्वविद्यालयस्य कुलगुरुः विजयमनोहरः तिवारी अपि युवविधायकान् सम्बोधितुं आगमिष्यति।
द्वितीयदिने, ३१ मार्चमासे, मङ्गलवासरे ‘विकसितभारत २०४७ - युवविधायकानां दायित्वानि तथा समस्याः’ इति विषयः मन्थनाय भविष्यति। अस्मिन दिने अन्यसत्रैः सह एम.आई.टी.पुणे चेयरमैन डॉ.राहुलः-वी.कराडः भाषणं दास्यति। समापनसमारोहे राज्यसभायाः उपसभापतिः हरिवंशः उपस्थितः भविष्यति। संसदीयकार्यमन्त्री कैलाशविजयवर्गीयः तथा नेता प्रतिपक्षः उमंगसिंघारः उपस्थितः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता