Enter your Email Address to subscribe to our newsletters



- मुख्यमंत्री जन समस्यानां संगृहीतं संज्ञानम्, एकेनैकेन च जनेन सह मिलितः
लखनऊ, 30 मार्चमासः (हि.स.)।मुख्यमन्त्री योगीआदित्यनाथ सोमवासरे ‘जनतादर्शन’ कार्यक्रमे प्रदेशस्य विविधभागेभ्यः आगतानां जनानां समस्याः अशृणोत्। सर्वेषां प्रार्थनापत्राणि स्वीकृत्य अधिकाऱिणः निर्देशितवन्तः यत् एतासां समस्याः प्राथमिकतया समयबद्धतया च निराकर्तव्याः। मुख्यमन्त्री उक्तवान् यत् सरकारः सर्वेषां पीडितानां यथोचितसमाधानाय निरन्तरं प्रयतते।
उन्नावजनपदस्य बांगरमऊप्रदेशात् आगता ममतातिवारी नामिका महिला मन्दिरस्य अवैधाधिकारणस्य विषयं निवेदयन्ती प्रार्थनापत्रं दत्तवती। सा अवदत् यत् केचन जनाः मन्दिरं स्वाधीनं कृत्वा तत्र पूजां कर्तुं अपि न अनुमन्यन्ते। एतत् श्रुत्वा मुख्यमन्त्री तत्क्षणं प्रकरणं गृहीत्वा पुलिसअधीक्षकं प्रति आवश्यककार्यानुष्ठानस्य निर्देशं दत्तवान्।
बदायूंजनपदात् आगतः कश्चन कृषकः अवदत् यत् केचन जनाः तस्य कृषिफलानि नष्टवन्तः तथा पुलिसः अपेक्षितां क्रियां न करोति। अस्मिन् विषये मुख्यमन्त्री अधिकाऱिणः निर्देशितवान् यत् कस्यापि कृषकस्य कष्टं न भवेत् तथा दोषिणां विरुद्धं विधिसम्मतकार्यं शीघ्रं क्रियताम्।
बलरामपुरजनपदात् आगतः अन्यः फरियादी अवदत् यत् ग्रामस्य मार्गः अतीव दुर्दशायाम् अस्ति तथा ग्रामप्रधानेन बहुवर्षेभ्यः तस्य निर्माणं न कृतम्। अस्य विषये मुख्यमन्त्री स्थानीयप्रशासनिकअधिकाऱिणः आदेशं दत्तवान् यत् ग्रामं गत्वा जनैः सह संवादं कृत्वा स्थितेः मूल्यांकनं कृत्वा मार्गनिर्माणं क्रियताम्।
‘जनतादर्शनकार्यक्रमे उपस्थितः फर्रुखाबादनिवासी कश्चन क्रीडकः अपि स्वसमस्या निवेदितवान्। सः अवदत् यत् सः निशानेबाजः अस्ति तथा विभिन्नस्पर्धासु पदकानि अपि जितवान्, अतः सः लाइसेन्सप्राप्तये निवेदनं कृतवान्। अस्मिन् विषये मुख्यमन्त्री उक्तवान् यत् क्रीडकाः अस्माकं धरोहराः सन्ति, तेषां प्रार्थनापत्राणि गृहीत्वा यथोचितकार्यं क्रियताम्।
अत्र भूमिविवादपरिवारिकविवादसम्बद्धाः अपि विषयाः आगताः। मुख्यमन्त्री सर्वेषां प्रकरणानां विषये अधिकाऱिणः यथोचितकार्याय निर्देशं दत्तवान्। लखनऊनगरात् आगतः कश्चन जनोऽवैधकालोनीसम्बद्धं विषयं प्रस्तुतवान्, यस्मिन् मुख्यमन्त्री आवासआयुक्तं प्रति नियमानुसारकार्याय आदेशं दत्तवान्।
केषाञ्चित् जनानां सर्वकारीभूमौ अवैधाधिकारणस्य परिवादाःअपि प्राप्ताः, अन्ये केचन पुलिसकार्यप्रणाल्याः विषये असन्तोषं व्यक्तवन्तः। मुख्यमन्त्री योगीआदित्यनाथ एतेषु सर्वेषु विषयेषु शीघ्रकार्याय आदेशं दत्तवान् तथा पीडितानां सन्तोषं विशेषतया सुनिश्चितं कर्तुं बलं दत्तवान्।
सरोजिनीनगरप्रदेशात् आगतः कश्चन अपेक्षितजनो भूम्यधिकारणस्य तथा परिखाभित्तेः भङ्गस्य परिवादं कृतवान्, यस्मिन् विषये सरोजिनीनगरस्य एसडीएम प्रति त्वरितनिराकरणस्य निर्देशः दत्तः।
---------------
हिन्दुस्थान समाचार