योगी-सर्वकारः फॉरेंसिक-संस्थानस्य विद्यार्थिनः धुरन्धराः करिष्यति।
लखनऊनगरम्, ३० मार्चमासः (हि.स.)। उत्तरप्रदेशस्य शासनं उत्तरप्रदेश-राज्य-फॉरेंसिक-साइंसेज-संस्थायाः (यूपीएसआईएफएस्) छात्रान् फॉरेंसिक-क्षेत्रे निपुणान् कर्तुं महत्त्वपूर्णं प्रयासं करोति। एतदर्थं यूपीएसआईएफएस महाराणा-प्रताप-इन्स्टिट्यूट्-ऑफ-टेक्नोलॉ
VS-UP-CM-YOGI-CODEINE


लखनऊनगरम्, ३० मार्चमासः (हि.स.)। उत्तरप्रदेशस्य शासनं उत्तरप्रदेश-राज्य-फॉरेंसिक-साइंसेज-संस्थायाः (यूपीएसआईएफएस्) छात्रान् फॉरेंसिक-क्षेत्रे निपुणान् कर्तुं महत्त्वपूर्णं प्रयासं करोति। एतदर्थं यूपीएसआईएफएस महाराणा-प्रताप-इन्स्टिट्यूट्-ऑफ-टेक्नोलॉजी, गोरखपुरम्, धीरूभाई-अम्बानी-विश्वविद्यालयः, गांधीनगरम्, उत्तरप्रदेश-कारागार-प्रशासनम् एवं सुधारसेवाः, तथा किंग-जॉर्ज-चिकित्सा-विश्वविद्यालयः इत्यादिभिः च सह चतसृभिः संस्थाभिः सह सन्धि-पत्रं (एमओयू) स्वीकरिष्यति।

अस्मिन् सहयोगे छात्रेभ्यः इंटर्नशिप-केसस्टडी-पोस्टमार्टम-प्रक्रियायाः अध्ययनम्, चिकित्सक-न्यायिकपक्षानां विश्लेषणम् अपराधानुसन्धानस्य व्यावहारिक-अनुभवः च लभ्यते। केजीएमयू-मध्ये पोस्टमार्टम तथा मृत्युविषयकवैज्ञानिकविश्लेषणाध्ययनं भविष्यति। कारागार-प्रशासनसहयोगेन छात्रेभ्यः जेलेषु गत्वा अपराधस्य सामाजिक-मनोवैज्ञानिककारणान् अवगन्तुं अवसरः भविष्यति।

महाराणा-प्रताप-इन्स्टिट्यूट् तथा धीरूभाई-अम्बानी-विश्वविद्यालयाभ्यां च सह छात्र-फैकल्टी-विनिमय-कार्यक्रमेण प्रशिक्षणम्, अनुभवः च ज्ञानस्य आदान-प्रदानं साध्यते। भविष्ये फॉरेंसिक-साइंसेज-संस्थायाम् संयुक्तां प्रयोगशालां स्थाप्य अत्याधुनिक-तंत्रैः अनुसंधानं परीक्षणं च कृतं भविष्यति।

यूपीएसआईएफएस-निदेशकः जी.के.गोस्वामी उक्तवान् यत् मुख्यमन्त्री योगी-आदित्यनाथः छात्रान् केवलं सैद्धान्तिक-ज्ञान-परिमितं न योजयित्वा, वास्तविकपरिस्थितिषु फॉरेंसिक्-विशेषज्ञत्वाय प्रशिक्षयितुम् इच्छन्ति। एषा योजना डिजिटल-क्राइम-साइबर-फ्रॉड-इत्यादिषु जटिल-आपराधिक-विषयेषु वैज्ञानिक-परीक्षणस्य बलवती करणीयम्।

हिन्दुस्थान समाचार / अंशु गुप्ता