Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 30 मार्चमासः (हि.स.)।
एकादशी-पावन-अवसरे चुनार-क्षेत्रस्य दुर्गा-खोह-स्थिते मातुः दुर्गा-मन्दिरे रविवासरस्य रात्रौ भक्ति-श्रद्धयोः अद्भुतः संगमः दृष्टः। मन्दिरे मातुः दुर्गायाः भव्यः श्रृङ्गारः कृतः, यत्र पुष्पैः आकर्षकैः अलङ्कारैः च देव्या स्वरूपं अत्यन्तं मनोहरं अभवत्। दर्शन-पूजनार्थं बहवः श्रद्धालवः रात्रेः अन्तपर्यन्तं मन्दिर-परिसरे समागता आसन्।
श्रृङ्गारस्य अनन्तरं विशाल-भण्डारस्य आयोजनं कृतम्, यस्मिन् क्षेत्रस्य शताधिकाः श्रद्धालवः प्रसादं स्वीकृतवन्तः। समग्रे आयोजने श्रद्धालूनां सेवायै व्यवस्थायै च स्थानीय-समितेः सदस्याः सक्रियतया संलग्नाः आसन्।
ततः अनन्तरं आयोजिते देवी-जागरण-कार्यक्रमे वाराणसी-नगरस्य प्रसिद्धा कलाकारिणी पिंकी-मिश्रा तस्याः दलं च उत्कृष्टानि देवी-गीतानि प्रस्तुतवन्तः, येन वातावरणं भक्तिमयं जातम्। “जय अम्बे गौरी” इत्यादिषु भजन-गीतिषु श्रद्धालवः रात्रेः अन्तपर्यन्तं आनन्देन नृत्यन्तः दृष्टाः। कलाकाराणां प्रस्तुति उपस्थितजनान् मन्त्रमुग्धान् अकरोत्।
कार्यक्रमस्य समये मन्दिर-परिसरे सुरक्षा-व्यवस्थायाः उत्तमाः प्रबन्धाः कृताः आसन्। आयोजकैः उक्तं यत् प्रतिवर्षं यथा, एवं अस्मिन् वर्षे अपि एकादशी-अवसरे अयं कार्यक्रमः श्रद्धया उल्लासेन च सफलतया सम्पन्नः।
---------------
हिन्दुस्थान समाचार