श्री काशी विश्वनाथ मंदिरे तमिलनाडुतः आगताः श्रद्धालवस्तिरुवासगमस्य कृतः संपूर्णपाठः
वाराणसी, 30 मार्चमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीनगरे स्थिते श्रीकाशीविश्वनाथमन्दिरे सोमवासरे विशेषप्रार्थनायाः आयोजनं कृतम्। श्रीकाशीविश्वनाथधामे तमिलनाडुराज्यात् आगताः एकशतदश श्रद्धालवः अम्माचियारम्मन्तिरुवासगमसम्पूर्णपाठप्रार्थनासमूहस्य अन्त
01d723f280bf633ab9200c7eac8b79e2_1813504494.jpg


0e31031818b37ef27eaefccd773cbec9_1879662185.jpg


वाराणसी, 30 मार्चमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीनगरे स्थिते श्रीकाशीविश्वनाथमन्दिरे सोमवासरे विशेषप्रार्थनायाः आयोजनं कृतम्। श्रीकाशीविश्वनाथधामे तमिलनाडुराज्यात् आगताः एकशतदश श्रद्धालवः अम्माचियारम्मन्तिरुवासगमसम्पूर्णपाठप्रार्थनासमूहस्य अन्तर्गताः सन्तः अस्मिन् आयोजने पूर्णया श्रद्धया उल्लासेन च सहभागं कृतवन्तः। अस्य समूहस्य नेतृत्वं जी मुथुमदासामी कृतवान्।

अस्मिन् अवसरे श्रद्धालवः प्राचीनतमिलग्रन्थस्य तिरुवासगम इत्यस्य सम्पूर्णं पाठं षट्शताष्टपञ्चाशत् गीतानि एकस्मिन् सततक्रमेण कृतवन्तः। तमिलश्रद्धालूनां मतानुसारं अयं पवित्रग्रन्थः महता सता माणिक्कवाचगरेण विरचितः अस्ति तथा भगवान् शिवस्य प्रति समर्पणस्य प्रतीकः मन्यते।

प्रायः साढेपञ्चघण्टापर्यन्तं चालितः अयं पाठः मन्दिरपरिसरे शान्तिपूर्वकं नियमितव्यवस्थानुसारं सम्पन्नः। श्रद्धालवः पूर्णश्रद्धया अनुशासनपूर्वकं च भगवान् शिवस्य आराधनां कृतवन्तः।

मन्दिरन्यासस्य अनुसारम् अयं कार्यक्रमः देशस्य विभिन्नभागेभ्यः आगतानां भक्तानां श्रद्धा एकता सांस्कृतिकसमन्वयस्य च प्रेरणादायकं उदाहरणं प्रस्तुतवान्।------

हिन्दुस्थान समाचार