Enter your Email Address to subscribe to our newsletters

अयोध्यायां, ३० मार्चमासः (हि.स.)। राष्ट्रीय-लोक-मोर्चायाः (आर.एल.एम) राष्ट्रीय-अध्यक्षः उपेन्द्र-कुषवाहा सोमवासरे अयोध्यायां स्थिते श्री-रामजन्मभूमि-मन्दिरम् आगत्य स्वकुटुम्बेन सह प्रभु-रामस्य दर्शनं कृतवन्तः।
विमानतले सञ्चारमाध्यमेन साक्षात्कार-काले तेन उक्तम् - स्वकुटुम्बेन सह दर्शनाय आगतः अस्मि। एतत् अकथयत् – प्रभु-श्री-रामस्य दर्शनं अत्युत्तमम् अभवत्। मन्दिरम् अतीव भव्यं निर्मितम् अस्ति, यत्र कश्चन जनः बारम्बारं आगमनाय इच्छति।
हिन्दुस्थान समाचार / अंशु गुप्ता