यूएई-देशेन ईरान-देशस्य ११ बैलिस्टिक-प्रक्षेपका:, २७ ड्रोन-इति च निष्क्रियीकृताः
अबू-धाबी, ३० मार्चमासः (हि.स.)। पश्चिम-एशिया-प्रदेशे युद्धस्य निरन्तर-प्रवृत्तेः मध्ये संयुक्त-अरब-अमीरात-देशस्य रक्षा-मन्त्रालयेन उक्तं यत् तस्य वायु-रक्षा-प्रणालिभिः सोमवासरे ईरान-देशतः प्रेषिताः ११ बैलिस्टिक-प्रक्षेपका: तथा २७ ड्रोन-मध्ये एव निव
साेशल मीडिया प्लेटफार्म एक्स पर यूएई की रक्षा मंत्रालय द्वारा जारी आंकड़ें


अबू-धाबी, ३० मार्चमासः (हि.स.)। पश्चिम-एशिया-प्रदेशे युद्धस्य निरन्तर-प्रवृत्तेः मध्ये संयुक्त-अरब-अमीरात-देशस्य रक्षा-मन्त्रालयेन उक्तं यत् तस्य वायु-रक्षा-प्रणालिभिः सोमवासरे ईरान-देशतः प्रेषिताः ११ बैलिस्टिक-प्रक्षेपका: तथा २७ ड्रोन-मध्ये एव निवारिताः।

मन्त्रालयेन उक्तं यत् अद्यपर्यन्तं तस्य वायु-रक्षा-प्रणालीभिः ४२५ बैलिस्टिक-प्रक्षेपका:, १५ क्रूज-प्रक्षेपका: तथा १९४१ ड्रोन निष्क्रियीकृताः। अस्मिन् काले यूएई-सशस्त्र-बलस्य द्वौ सैनिकौ वीरगतिं प्राप्तवन्तौ, तथा मोरक्को-देशस्य एकः नागरिकः अपि मृतः।

अस्य आक्रमणस्य परिणामस्वरूपं १७८ जनाः आहताः, येषु विभिन्न-देशानां नागरिकाः सन्ति। रक्षा-मन्त्रालयेन उक्तं यत् देशः सर्वासां समस्यानां प्रतिकाराय पूर्णतया सज्जः अस्ति तथा स्व-राष्ट्रस्य सुरक्षा-स्थैर्यं च रक्षितुं दृढतया प्रयासं करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता