सर्वकारेण आश्वासनं दत्तम्—देशे ईंधनस्य पर्याप्ता उपलब्धता
नवदिल्ली, ३० मार्चमास: (हि.स.)। पश्चिम-एशिया-संकटेऽपि सर्वकारेण उक्तं यत् देशे पेट्रोल-डीजल-एलपीजी-पीएनजी इत्येषां पर्याप्ता उपलब्धता अस्ति तथा आपूर्तिः निर्बाधा वर्तते। विदेश-मन्त्रालयस्य प्रवक्ता रणधीर-जायसवाल-महोदयः उक्तवान् यत् प्रधानमन्त्री न
अंतर मंत्रालयी प्रेसवार्ता को संबोधित करते हुए रणधीर जायसवाल, सुजाता शर्मा और अन्य


अंतर मंत्रालयी प्रेसवार्ता को संबोधित करते हुए रणधीर जायसवाल, सुजाता शर्मा और अन्य


अंतर मंत्रालयी प्रेसवार्ता को संबोधित करते हुए रणधीर जायसवाल, सुजाता शर्मा और अन्य


नवदिल्ली, ३० मार्चमास: (हि.स.)। पश्चिम-एशिया-संकटेऽपि सर्वकारेण उक्तं यत् देशे पेट्रोल-डीजल-एलपीजी-पीएनजी इत्येषां पर्याप्ता उपलब्धता अस्ति तथा आपूर्तिः निर्बाधा वर्तते।

विदेश-मन्त्रालयस्य प्रवक्ता रणधीर-जायसवाल-महोदयः उक्तवान् यत् प्रधानमन्त्री नरेन्द्र-मोदी-विभिन्न-देशानां नेतृभिः सह संवादं कुर्वन्ति। २८ मार्च-मासे तेन सऊदी-अरब-देशस्य युवराजेन मोहम्मद-बिन-सलमान-महोदयेन सह अपि वार्ता कृता। तयोः मध्ये पश्चिम-एशिया-संघर्ष-विषये विचार-विनिमयः अभवत् तथा ऊर्जा-संरचनानां उपरि आक्रमणानां निन्दा कृता। उभाभ्यां नेतृभ्यां नौवहन-मार्गाणां मुक्तत्वं सुरक्षा च विषये अपि चर्चा कृता।

पेट्रोलियम-प्राकृतिक-गैस-मन्त्रालयस्य संयुक्त-सचिवा सुजाता-शर्मा-महोदया उक्तवती यत् देशे सर्वत्र पेट्रोल-डीजल-एलपीजी-पीएनजी इत्येषां पर्याप्ता उपलब्धता अस्ति तथा एतत् सुनिश्चितुं सर्वकारेण आवश्यकाः उपायाः कृताः सन्ति। रिफाइनरी-संस्थानानि सामान्यतया कार्यं कुर्वन्ति तथा अपक्व-तैलस्य भण्डारः अपि पर्याप्तः अस्ति। डीजल-एटीएफ-इत्येतयोः उपलब्धतां स्थिरं कर्तुं निर्यात-शुल्कम् अपि निर्धारितम्।

सर्वकारेण ऊर्जा-विपणस्य स्थिरीकरणाय उपायाः कृताः, निर्माण्य: सामान्यतया कार्यं कुर्वन्ति, अपक्व-तैल-भण्डारः अपि पर्याप्तः अस्ति। गृह-उपभोक्तृभ्यः पूर्ण-आपूर्तिः सुनिश्चिताऽस्ति तथा एलपीजी-वितरणेऽपि काचित् न्यूनता नास्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता