Enter your Email Address to subscribe to our newsletters

धौलपुरम्, 30 मार्चमासः (हि.स.)।
धौलपुरनगरे भगवान् महावीरस्वामिनः जन्मकल्याणकं रथयात्रामहोत्सवश्च सोमवासरे उल्लासेन भक्तिभावेन च आचरितः। अस्मिन् अवसरि स्वर्णकलशैः श्रीजीस्य अभिषेकः कृतः तथा विश्वकल्याणार्थं शान्तिधारा अपि कृता।
नगरस्य आदिनाथदिगम्बरजैनमन्दिरे विशेषपूजार्चनां कृत्वा रथयात्रायाः हरितध्वजेन प्रस्थानं कृतम्। एषा रथयात्रा पुरानीसब्जीमण्डी, तोपतिराहा, बजरियारोड, गडरपुराचौराहा, पुराणराजाखेड़ाबसस्थानकं, पुराणडाकखानाचौराहा, हलवाईखाना तथा हनुमान्तिराहा इत्यादीन् मार्गान् अतिक्रम्य पुनः जैनमन्दिरं प्राप्ता, यत्र तस्याः समापनं अभवत्।
बैंडवाद्यैः अलङ्कृता शोभायात्रा स्थानस्थानं आरत्या स्वागतिता। अस्यां शोभायात्रायां भगवान् महावीरस्वामिनः जीवनदर्शनसम्बद्धाः प्रायः द्वादश झाङ्क्यः अपि आसन्।
अस्यां शोभायात्रायाम् अन्येषु कार्यक्रमेषु च राजस्थानस्य पूर्ववित्तमन्त्री प्रद्युम्नसिंहः, जैनसमाजस्य संरक्षकः पूर्वविधायकः रविन्द्रसिंहबोहरा, प्रमुखसमाजसेवी प्रदीपवोहरा, विवेकसिंहबोहरा, नेतरामबाबूजी, जैनसमाजस्य अध्यक्षः धनेशजैनः, रूपेशकुमारजैनः, डॉ. सुरेन्द्रकुमारजैनः, संजयजैनः, दिलीपजैनः, पवनजैनः, हर्षजैनः तथा अन्ये बहवः गणमान्याः जनाः सहभागिनोऽभवन्।
---------------
हिन्दुस्थान समाचार