Enter your Email Address to subscribe to our newsletters

स्वस्य फिटनेस-तथा-चलच्चित्रैः प्रसिद्धः अभिनेता अक्षय-कुमारः सम्प्रति स्व-जीवनस्य एकां दुर्बलतां प्रकाशितवान्, या सर्वान् आश्चर्यचकितान् अकरोत्। कोट्यधिक-सम्पत्तेः वैश्विक-यशसश्च प्राप्तेरपि सः स्वीकरोति यत् सः अद्यापि कतिपयेषु अवसरेषु असुरक्षितम् अनुभवति। विशेषतः यदा सः अत्यधिक-शिक्षित-जनानां मध्ये उपविशति, तदा स्वयम् “लघुः” “असहजः” इव अनुभवति।
रियलिटी-कार्यक्रमे ‘व्हील-ऑफ-फॉर्च्यून’ इत्यस्य एकस्मिन् प्रकरणे संवाद-समये अक्षय-कुमारः प्रतियोगिन्याः सोनाली-नाम्न्याः उच्च-शिक्षायाः प्रशंसां कृत्वा अवदत्- “अहम् अत्यधिकं न पठितवान्, अतः भवतीनां समक्षं कदाचित् स्वयम् लघुः इव अनुभवानि। अधुना मन्ये- यदि अहं पठितवान् अभविष्यं तर्हि उत्तमम् अभविष्यत्; किन्तु अधुना इच्छन् अपि अध्ययनं कर्तुं न शक्नोमि।” अनया स्वीकृत्या तस्य व्यक्तित्वस्य संवेदनशीलः अन्यः पक्षः प्रकाशं गतः।
अक्षय-कुमारः अनन्तरं उक्तवान् यत् तस्मै पठनं न रोचते, किन्तु यूनः प्रति सः अध्ययनं प्राथमिकतया स्वीकरोतु इति परामर्शं दत्तवान्। सः हास्यभावेन अवदत्- “मादृशं न अनुसरन्तु, सोनाली-सदृशान् जनान् अनुसरन्तु।” अस्मिन् प्रसङ्गे सः एतदपि उक्तवान् यत् तस्य पत्नी ट्विंकल-खन्ना सफल-लेखिका अस्ति, सा अद्यावधि चत्वारि पुस्तकानि लिखितवती, यदा सः स्वयम् एकमपि पुस्तकं पूर्णतया पठितुं न अशक्नोत्।
अभिनेता हास्येन उक्तवान् यत् यदा कदाचित् सः पुस्तकम् उद्घाटयति, तदा तस्य नेत्राभ्यां अश्रूणि आगच्छन्ति। तथापि अस्य वक्तव्यस्य पृष्ठतः गम्भीरा शिक्षा निहिता अस्ति- सफलता प्राप्तायामपि शिक्षायाः महत्त्वं न न्यूनं भवति। अक्षय-कुमारस्य एषा सरलता, सत्यता च प्रशंसकैः अत्यधिका प्रशंसिता।
अक्षय-कुमारस्य आगम्यमानानि चलचित्राणि
कार्यक्षेत्रे अक्षय-कुमारस्य समीपे वर्तमानकाले बहूनि चलच्चित्राणि सन्ति। तस्य ‘वेलकम-टु-द-जंगल’ नामकं चलच्चित्रं विशेषतया चर्चायां वर्तते, यस्मिन् त्रिंशदधिकाः प्रमुख-अभिनेतार: सन्ति। अस्मिन् चलच्चित्रे अक्षय-कुमारेण सह रवीना-टण्डन, संजय-दत्तः, अरशद-वारसी तथा दिशा-पाटनी इत्यादयः कलाकाराः दृश्यन्ते। एतत् महत्-व्यययुक्तं हास्य-प्रधानं चलच्चित्रं भविष्यति। अस्मादतिरिक्तं अक्षय-कुमारः प्रियदर्शनस्य ‘भूत-बंगला’ तथा ‘हैवान’ इत्येतयोः चलच्चित्रयोः अपि दृश्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता