असमे भाजपादलस्य संकल्पपत्रस्य निर्गमने असमिया परिधाने दृष्टा निर्मला सीतारमण इत्येषा
नव दिल्ली, 31 मार्चमासः (हि.स.)। असमीयसंस्कृतेः पारम्परिकं वेशभूषणं भोजनं च सदा जनान् आकर्षयन्ति। अस्य दृश्यं मङ्गलवासरे तदा दृष्टा, यदा केन्द्रीयवित्तमन्त्री निर्मला सीतारमण असमविधानसभानिर्वाचनम् २०२६ इत्यस्य कृते भारतीय जनता पार्टी-पक्षस्य संकल्प
प्रदेश भाजपा मुख्यालय में असमिया परिधान “मेखला चादर” पहन भाजपा के संकल्प पत्र का विमोचन करतीं केंद्रीय वित्त मंत्री निर्मला सीतारमण


नव दिल्ली, 31 मार्चमासः (हि.स.)। असमीयसंस्कृतेः पारम्परिकं वेशभूषणं भोजनं च सदा जनान् आकर्षयन्ति। अस्य दृश्यं मङ्गलवासरे तदा दृष्टा, यदा केन्द्रीयवित्तमन्त्री निर्मला सीतारमण असमविधानसभानिर्वाचनम् २०२६ इत्यस्य कृते भारतीय जनता पार्टी-पक्षस्य संकल्पपत्रं प्रकाशितुं गुवाहाटी-स्थितं पक्षमुख्यालयं प्राप्तवती।

संकल्पपत्रविमोचनसमारोहे उपस्थितायाः वित्तमन्त्रिणः वेशः पूर्णतया पारम्परिक-असमीयः आसीत्। सा “मूगा”-रेशमेन निर्मितं सुवर्णवर्णं “मेखेला-चादर” इति वसनं धारयित्वा मञ्चं प्राप्तवती। तस्याः वेशं दृष्ट्वा उपस्थिताः जनाः असमस्य समृद्धां संस्कृतिं परम्परां च प्रति गौरवं अनुभवन्तः तस्याः प्रशंसां कृतवन्तः।

संकल्पपत्रस्य प्रकाशनानन्तरं निर्मला सीतारमण उक्तवती यत्—भाजपायाः घोषणापत्रं अस्मिन् राज्ये गतदशकस्य परिवर्तनस्य आधारेण निर्मितम् अस्ति।

अस्मिन् समारोहे केन्द्रीयमन्त्री सर्बानन्द सोनोवाल तथा मुख्यमन्त्री हिमन्त बिस्वा सरमा, प्रदेशभाजपाध्यक्षः दिलीप सैकिया अन्ये च उपस्थिताः आसन्।

अस्मात् पूर्वं प्रधानमन्त्री नरेन्द्र मोदी अपि अनेकेषु अवसरेषु असमीयं गामोछवर्त्रं धृत्वा तस्य वैश्विकीं प्रसिद्धिं वर्धितवान्। अधुना वित्तमन्त्री सीतारमण अपि असमीयनारीणां पारम्परिकवस्त्रस्य नूतनां पहचानं दातुं प्रयतितवती।

“मेखेला-चादर” असमीयनारीणां पारम्परिकं द्विखण्डात्मकं वसनम् अस्ति, यत् साडिवत् दृश्यते। अस्मिन् अधोभागे कटितः अधः धार्यते स्कर्टाकारः “मेखेला” इति, उपरि च स्कन्धे आवृत्य धार्यते “चादर” इति। एतत् मूगा-सिल्क, पाट-सिल्क, सूती-वस्त्रेभ्यः वा निर्मीयते। एतत् वसनं साड्याः अपेक्षया सुकरं सुखकरं च धारयितुं मन्यते। विशेषतः बिहू-उत्सवे विवाहादिषु च एतत् अत्यन्तं लोकप्रियम् अस्ति।

---------------

हिन्दुस्थान समाचार