असमनिर्वाचनाय भाजपादलस्य ‘संकल्प पत्रं’ 3 लक्षात् अधिकजनानां परामर्शेण सज्जम् : सोनोवालः
गुवाहाटी, 31 मार्चमासः (हि.स.)। केन्द्रीयमन्त्री तथा भारतीय जनतादलस्य नेता सर्बानन्द सोनोवाल उक्तवान् यत्—असमविधानसभानिर्वाचनस्य कृते भारतीयजनतापक्षस्य ‘संकल्पपत्रम्’ व्यापकपरामर्शानन्तरं जनैः सह निर्मितम्। अस्मिन् त्रिलक्षाधिकैः जनैः स्वसुझावाः प्
असम प्रदेश भाजपा मुख्यालय में संकल्प पत्र के विमोचन अवसर पर मंगलवार को उपस्थित संबोधित करते केंद्रीय मंत्री सर्बानंद सोनोवाल


गुवाहाटी, 31 मार्चमासः (हि.स.)। केन्द्रीयमन्त्री तथा भारतीय जनतादलस्य नेता सर्बानन्द सोनोवाल उक्तवान् यत्—असमविधानसभानिर्वाचनस्य कृते भारतीयजनतापक्षस्य ‘संकल्पपत्रम्’ व्यापकपरामर्शानन्तरं जनैः सह निर्मितम्। अस्मिन् त्रिलक्षाधिकैः जनैः स्वसुझावाः प्रदत्ताः।

गुवाहाटी-स्थिते पक्षमुख्यालये मङ्गलवासरे भाजपयादलेन असमविधानसभानिर्वाचनम् २०२६ इत्यस्य कृते स्वीयं ‘संकल्पपत्रम्’ प्रकाशितम्। अस्मिन् अवसरॆ केन्द्रीयमन्त्री निर्मला सीतारमण तथा सर्बानन्दसोनोवालः, मुख्यमन्त्री हिमन्त बिस्वा सरमा, असमभाजपाध्यक्षः दिलीप सैकिया च अन्ये च उपस्थिताः आसन्।

कार्यक्रमे सोनोवालः घोषणापत्रनिर्माणप्रक्रियां विवृण्वन् उक्तवान् यत्पक्षकार्यकर्तारः सम्पूर्णे राज्ये जनानां समीपं गत्वा तेषां मतं प्रत्यक्षतया ज्ञातवन्तः। वयं असमस्य प्रत्येकभागे गत्वा गृहं गृहं प्रति जनानां सुझावान् संगृहीतवन्तः यत् आगामीकार्यकाले किं कर्तव्यं स्यात्। अस्य प्रयासस्य उद्देश्यः नीतिगतप्राथमिकताः जनमतस्य आधारेण निर्धारयितुम् आसीत्। तेन उक्तम् यत् त्रिलक्षाधिकैः जनैः स्वसुझावाः प्रदत्ताः।

सः पुनः उक्तवान् यत्—यदि पक्षः पुनः सत्तां प्राप्स्यति तर्हि एतेषां सुझावानां आधारेणैव कार्यं करिष्यति। अस्य दस्तावेजस्य आधारेण वयं तृतीयकार्यकाले अपि कार्यं प्रवर्तयिष्यामः।

निर्वाचनसम्भावनानां विषये अपि सोनोवालः पक्षनेतृत्वयुक्तगठबन्धनस्य दृढप्रदर्शनं प्रति विश्वासं व्यक्तवान्। सः उक्तवान्—वयं स्वसहयोगिभिः सह पुनः पुनः उक्तवन्तः यत् वयं शतसङ्ख्याया समीपे स्थिताः स्मः, यत् १२६ सदस्ययुक्तायां असमविधानसभायां पक्षस्य लक्ष्यं सूचयति।

सः आशां व्यक्तवान् यत् ‘संकल्पपत्रम्’ भाजपाया निर्वाचनप्रचारे महत्वपूर्णां भूमिकां निर्वक्ष्यति, यतः पक्षः एनं जनैः पूर्वमेव निर्धारितम् एजेण्डा इति रूपेण प्रस्तोतुम् इच्छति।

--------------

हिन्दुस्थान समाचार