षष्ठे अप्रैलमासीये प्रधानमंत्रिणो होजाई आगमनाय व्यापकतया सज्जा
होजाईः (असमः), 31 मार्चमासः (हि.स.)। राज्ये आगामि विधानसभा-निर्वाचन २०२६ सन्दर्भे प्रचार-अभियानं तीव्रतां प्राप्तवान् अस्ति। राष्ट्रिय-स्तरस्य नेतारः राज्यस्य केषुचित् विशिष्ट-क्षेत्रेषु स्वदलस्य प्रत्याशिनां समर्थनार्थं जनानां मध्ये सभा-शोभायात्रा
षष्ठे अप्रैलमासीये प्रधानमंत्रिणो होजाई आगमनाय व्यापकतया सज्जा


होजाईः (असमः), 31 मार्चमासः (हि.स.)। राज्ये आगामि विधानसभा-निर्वाचन २०२६ सन्दर्भे प्रचार-अभियानं तीव्रतां प्राप्तवान् अस्ति। राष्ट्रिय-स्तरस्य नेतारः राज्यस्य केषुचित् विशिष्ट-क्षेत्रेषु स्वदलस्य प्रत्याशिनां समर्थनार्थं जनानां मध्ये सभा-शोभायात्रादिभिः माध्यमैः निर्वाचन-प्रचारं कुर्वन्ति।

अस्यैव क्रमस्य अन्तर्गते होजाई-जिलस्य मुख्यालय-नगरे श्रीमन्त शंकरदेव-नगरे आगामि ६ एप्रिल-दिने प्रधानमन्त्री नरेन्द्र मोदी आगमिष्यति। तदर्थं पूर्वमेव श्रीमन्त शंकरदेव-नगरे जिला-आयुक्त-कार्यालयस्य पुरतः स्थिते क्रीडाङ्गणे सुरक्षा-कर्मचारिणां पर्यवेक्षणे सभा-पण्डालस्य निर्माण-कार्यं तथा अन्यानि सर्वाणि कार्याणि क्रियमाणानि सन्ति। सम्पूर्ण-तत्परतया सज्जता प्रचलति। प्रदेश-भाजपा पक्षेण लगभग एक-लक्ष-जनानां उपस्थितौ उक्त-सभा आयोजयितुं योजना कृताऽस्ति।

अन्यस्मिन् पक्षे आगामिनि १ एप्रिल-दिनांके २ नम्बर काकी-क्षेत्रे भाजपा-प्रत्याशिनः शिवू मिश्रस्य समर्थनार्थं राज्यस्य मन्त्री पियूष हजारिका निर्वाचन-प्रचारं करिष्यति।

हिन्दुस्थान समाचार