असम विधानसभानिर्वाचनाय सीतारमणः निर्गतवान् भाजपादलस्य ‘संकल्प पत्रम्’
गुवाहाटी, 31 मार्चमासः (हि.स.)। असमप्रदेशे भारतीयजनता दलस्य कार्यकर्तृभिः मङ्गलवासरे प्रातःकाले दलमुख्यालये अटल बिहारी वाजपेयी भवन नाम्नि विधानसभानिर्वाचनार्थं ‘संकल्पपत्रम्’ प्रकाशितम्। अस्य संकल्पपत्रस्य औपचारिकविमोचनं केन्द्रीयवित्तमन्त्रिणा
असम प्रदेश भाजपा मुख्यालय में असम विधानसभा चुनाव के लिए संकल्प पत्र जारी करतीं केंद्रीय मंत्री निर्मला सीतारमन। साथ में अन्य नेतागण


असम प्रदेश भाजपा मुख्यालय में असम विधानसभा चुनाव के लिए संकल्प पत्र जारी करतीं केंद्रीय मंत्री निर्मला सीतारमन। साथ में अन्य नेतागण


गुवाहाटी, 31 मार्चमासः (हि.स.)।

असमप्रदेशे भारतीयजनता दलस्य कार्यकर्तृभिः मङ्गलवासरे प्रातःकाले दलमुख्यालये अटल बिहारी वाजपेयी भवन नाम्नि विधानसभानिर्वाचनार्थं ‘संकल्पपत्रम्’ प्रकाशितम्।

अस्य संकल्पपत्रस्य औपचारिकविमोचनं केन्द्रीयवित्तमन्त्रिणा निर्मला सीतारमण महोदया कृतम्। अस्मिन् कार्यक्रमे केन्द्रीयमन्त्री सर्वानन्द सोनोवाल, मुख्यमन्त्री डॉ. हिमन्त बिस्व सरमा, प्रदेशाध्यक्षः तथा सांसदः दिलीप सैकिया, केन्द्रीयमन्त्री पवित्र मार्गेरिटा, असमभाजपाया प्रभारी बैजयन्त पाण्डा, असमसरकारस्य मन्त्री रञ्जीत कुमार दास, सांसदः प्रदान बरुवा इत्यादयः उपस्थिताः आसन्।

निर्मला सीतारमण महोदया असमप्रदेशे भाजपानियन्त्रितस्य राष्ट्रीयजनतान्त्रिकगठबन्धनसरकारस्य गतदशवर्षेषु कृतानां प्रमुखकार्याणां विषये विवेचनं कृत्वा रोजगार, शिक्षा, स्वास्थ्य, उद्योग, सुरक्षा, आधारभूतसंरचना, शान्तिः, महिला-विकासः इत्यादिषु विषयेषु प्रकाशं न्यधात्। सा अपि कांग्रेसदलस्य शासनकाले राज्यस्य उपेक्षां प्रति अपि प्रश्नम् उपस्थितवती।

तया आगामिषु पञ्चवर्षेषु राज्यस्य समग्रविकासार्थं भाजपादलेन कर्तव्येषु संकल्पेषु अपि प्रकाशः कृतः।

कार्यक्रमस्य आरम्भे प्रदेशाध्यक्षः दिलीप सैकिया स्वागतभाषणम् अदात्। अस्मिन् अवसरे संकल्पपत्रस्य निर्माणार्थं कृतानां प्रयासानां विस्तृतविवरणम् अपि तेन प्रदत्तम्। तथा च केन्द्रीयमन्त्री सर्वानन्द सोनोवाल अपि अस्मिन् अवसरि स्वविचारान् व्यक्तवन्तः।

हिन्दुस्थान समाचार