खाड़ी युद्धम् आलक्ष्य देशे समग्रे एलपीजी-पेट्रोल अथ डीजल इत्येषाम् उपलब्धता सुनश्चेया सर्वकारेण : मायावती
— मायावत्यास्तथ्यम्- 2027 तमे वर्षे उत्तर प्रदेशे भविष्यति बसपादलस्य सर्वकारः — अपराधिणां बहुजन समाजस्य च अपमानं कर्तृभ्यो न लप्स्यते चिटिका लखनऊ, 31 मार्चमासः (हि.स.)।बहुजन समाजदल-पक्षस्य राष्ट्रियाध्यक्षा मायावती उक्तवती यत्—अस्मिन् काले अम
बसपा प्रमुख मायावती


— मायावत्यास्तथ्यम्- 2027 तमे वर्षे उत्तर प्रदेशे भविष्यति बसपादलस्य सर्वकारः

— अपराधिणां बहुजन समाजस्य च अपमानं कर्तृभ्यो न लप्स्यते चिटिका

लखनऊ, 31 मार्चमासः (हि.स.)।बहुजन समाजदल-पक्षस्य राष्ट्रियाध्यक्षा मायावती उक्तवती यत्—अस्मिन् काले अमेरिका-इजराइल-ईरान देशानां युद्धपरिस्थितौ केन्द्र-सर्वकारेण देशव्यापि एलपीजी-पेट्रोल-डीजलादीनां पर्याप्त-उपलब्धता सुनिश्चितीकरणीयम्। वस्तूनां मूल्यानां तीव्रवृद्ध्या “दारिद्र्ये आटागीलता” इव स्थितिः जाता, येन जनानां कष्टानि बहुगुणितानि अभवन्। अस्य समाधानाय प्रभाविनः उपायाः अवश्यं करणीयाः।

मङ्गलवासरे पक्षकार्यालये आयोजितायां समीक्षासभायां मायावती पदाधिकाऱिभिः सह चर्चा अकुर्वत्। सा उक्तवती यत्—खाडी-युद्धस्य कारणात् भारते रसोई-गैस-पेट्रोलादीनां संकटः दृश्यते, येन सर्वेषां वस्तूनां मूल्येषु वृद्धिः अभवत्। ये दरिद्राः श्रमिकाश्च पूर्वमेव संघर्षं कुर्वन्ति, तेषां कष्टानि अस्य कारणेन अधिकानि जातानि। अतः सरकारेण सततम् प्रभाविनः उपायाः कर्तव्याः, येन जनाः पुनः नोटबन्दी तथा कोविड्-महामारी इव अन्यसंकटं न अनुभवेयुः।

अस्यां सभायां संगठनस्य निर्देशानां कार्यप्रगतेः मूल्यांकनं कृतम्। मायावती उक्तवती यत्—देशस्य जनहितस्य च प्रति सरकारी उदासीनतया पीडिताः कोटिशः जनाः बसपा-पक्षात् आशां कुर्वन्ति। तासां अपेक्षाणां पूर्तये पदाधिकाऱिभिः कार्यकर्तृभिश्च पूर्णनिष्ठया परिश्रमेण च कार्यं करणीयम्; अस्मिन् विषये किञ्चिदपि प्रमादः न सह्यः।

सभायां ज्वलन्तेषु राष्ट्रियविषयेषु चर्चा अभवत्, यत्र वर्धमाना महार्घता निर्जीविका च अन्तर्भूताः आसन्। तथा च अमेरिका-इजराइल-ईरान देशानां संघर्षात् उत्पन्नानां चुनौतिनां विषये अपि विमर्शः कृतः। अस्मिन् विषये मायावती उक्तवती यत्—‘आत्मनिर्भरता’ केवलं आकर्षकं घोषवाक्यं न, अपि तु तत् पूर्णतया निष्ठया सत्यरूपेण परिणेतव्यम्, येन देशस्य आवश्यकताः पूर्येरन् तथा च इन्धनादि-सम्बद्धः संकटः निवर्तेत।

सा अपि उक्तवती यत्—राष्ट्रिय-जनहितसम्बद्धेषु विषयेषु सरकारेण विपक्षं विश्वासे गृहीत्वा सर्वसम्मत्याः दीर्घकालीननीतिः निर्मातव्या। प्राइवेट्-क्षेत्रे अतीव आश्रयणेन एव स्वावलम्बनम् आत्मनिर्भरता च साध्येते वा इति विषये गम्भीरचिन्तनम् अपेक्षितम्।

आगामि उत्तरप्रदेश-विधानसभानिर्वाचनं प्रति मायावती उक्तवती यत्—अपराधतत्त्वेभ्यः कदापि प्रोत्साहनं न दातव्यम्। ‘सर्वजनहिताय सर्वजनसुखाय’ इति सिद्धान्तेन प्रसिद्धस्य बसपा-पक्षस्य प्रत्याशिनां चयनसमये सर्वसमाजस्य समुचितप्रतिनिधित्वं सुनिश्चितीकरणीयम्।

आरक्षणविषये सा केन्द्र-राज्य-सरकारयोः आलोचनां कृत्वा उक्तवती यत्—अनुसूचितजाति-अनुसूचितजनजाति-ओबीसी-समाजानां मुख्यधारायां संयोजनाय संविधानदत्तं ‘आरक्षणम्’ अधिकारं निष्प्रभावं कर्तुं यत् प्रयत्नः क्रियते, सः निन्दनीयः। महिला-आरक्षणे अपि दुर्बलवर्गीयमहिलानां पृथग् आरक्षणाभावः चिन्तनीयः विषयः अस्ति, अस्मिन् विषये केन्द्र-सरकारेण ध्यानं दातव्यम्।

अन्ते सा उक्तवती यत्—१४ एप्रिल् दिने डॉ. भीमराव अम्बेडकर-महाभागस्य जयन्ती भविष्यति। तस्मिन् दिने पक्षसम्बद्धाः पदाधिकाऱिणः कार्यकर्तारश्च अष्टादशसु मण्डलेषु तस्मै श्रद्धाञ्जलिं समर्पयिष्यन्ति।

हिन्दुस्थान समाचार