Enter your Email Address to subscribe to our newsletters

कोलकाता, 31 मार्चमासः (हि.स.)। पश्चिमबङ्गराज्यस्य विधानसभानिर्वाचनस्य २०२६ वर्षस्य कृते भारतीयजनतापक्षेण चतुर्थसूची घोषिताऽस्ति। मङ्गलवासरे प्रकाशितया अस्या सूच्या सह पक्षेन अद्यपर्यन्तं २९४ सदस्यीयायाः विधानसभायाः २८७ आसनेषु प्रत्याशिनां नामानि घोषितानि सन्ति, अद्यापि केवलं सप्तसु आसनेषु प्रत्याशिनां नामनिर्णयः अवशिष्टः अस्ति।
पक्षस्य केन्द्रीयनिर्वाचनसमितेः अनुमोदनानन्तरं प्रकाशितायां अस्यां सूच्यां त्रयोदशसु विधानसभाक्षेत्रेषु प्रत्याशिनां नामानि समाविष्टानि सन्ति। तेषु सिताई अनुसूचितजातिक्षेत्रात् आशुतोषवर्मा, नाटाबाडीक्षेत्रात् गिरिजाशंकररायः, बागदा अनुसूचितजातिक्षेत्रात् सोमाठाकुरः, मोगराहाटपूर्व अनुसूचितजातिक्षेत्रात् उत्तमकुमारबनिकः, फलताक्षेत्रात् देबांशुपाण्डा, सोनारपुरोत्तरक्षेत्रात् देबाशीषधरः, चौरङ्गीक्षेत्रात् सन्तोषपाठकः, हावडादक्षिणक्षेत्रात् श्यामलहाटी, पाञ्चलाक्षेत्रात् रञ्जनकुमारपालः इति प्रत्याशिनः घोषिताः सन्ति।
अतिरिक्ततया चांदीपुरक्षेत्रात् डॉ. पीयूषकान्तिदासः, गड्बेताक्षेत्रात् प्रदीपलोढा, मेमारीक्षेत्रात् मानवगुहः तथा बाराबनीक्षेत्रात् अरिजीत्रायः प्रत्याशिनः घोषिताः सन्ति।
सहैव पक्षेन एकस्मिन् आसने पूर्वघोषिते प्रत्याशिनि परिवर्तनं कृत्वा मयनागुडी अनुसूचितजातिक्षेत्रात् दलीमरायः नूतनः प्रत्याशी घोषितः अस्ति।
पश्चिमबङ्गराज्ये विधानसभायाः कुलम् २९४ आसनानि सन्ति। राज्ये द्वयोः चरणयोः २३ तथा २९ एप्रिल् दिने मतदानं भविष्यति, तथा च ४ मे दिने मतगणना भविष्यति।
-----------------
हिन्दुस्थान समाचार